गायत्री लहरी
गायत्री लहरी
अमन्दानन्देनामरवरगृहे वास निरतां-
नरं गायन्तं या भुवि भवभयात्त्रायत इह ।
सुरेशैः सम्पूज्यां मुनिगणनुतां तां सुखकरीं
नमामो गायत्रीं निखिलमनुजाघौघशमनीम् ॥ १॥
अवामा संयुक्तं सकलमनुजैर्जाप्यमभितो-
ह्यपायात्पायाद्भूरथ भुवि भुवः स्वः पदमिति ।
पदं तन्मे पादाववतु सवितुश्चैव जघने-
वरेण्यं श्रोणिं मे सततमवतान्नाभिमपि च ॥ २॥
पदं भर्गो देवस्य मम हृदयं धीमहि तथा-
गलम्पायान्नित्यं धिय इह पदं चैव रसनाम् ।
तथा नेत्रे योऽव्यादलकमवतान्नः पदमिति-
शिरोदेशं पायान्मम तु परितश्चान्तिमपदम् ॥ ३॥
अये दिव्ये देवि त्रिदशनिवहैर्वन्दितपदे
न शेकुस्त्वां स्तोतुं भगवति महान्तोऽपि मुनयः ।
कथंकारं तर्हिस्तुतिततिरियं मे शुभतरा-
तथा पूर्णा भूयात् त्रुटिपरियुता भावरहिता ॥ ४॥
भजन्तं निर्व्याजं तव सुखदमन्त्रं विजयिनं
जनं यावज्जीवं जपति जननि त्वं सुखयसि ।
न वा कामं काचित् कलुषकणिकाऽपि स्पृशति तं
संसारं संसारं सरति सहसा तस्य सततम् ॥ ५॥
दधानां ह्याधानं सितकुवलयास्फालनरुचां
स्वयं विभ्राजन्तीं त्रिभुवनजनाह्लादनकरीम् ।
अलं चालं चालं मम चकितचित्तं सुचपलं
चलच्चन्द्रास्ये त्वद्वदनरुचमाचामय चिरम् ॥ ६॥
ललामे भाले ते बहुतर विशालेऽति विमले
कलाचञ्चच्चान्द्री रुचिरतिलकावेन्दुकलया ।
नितान्तं गोमाया निविड तमसो नाश व्यसना
तमो मे गाढं हि हृदयसदनस्थं ग्लपयतु ॥ ७॥
अये मातः किन्ते चरण-शरणं संश्रयवतां-
जनानामन्तस्थो वृजिन हुतभुक् प्रज्वलति यः ।
तदस्याशु सम्यक् प्रशमनहितायैव विधृतं-
करे पात्रं पुण्यं सलिलभरितं काष्ठरचितम् ॥ ८॥
अथाहोस्विन्मातः सरिदधिपतेः सारमखिलं
सुधारूपं कूपं लघुतरमनूपं कलयति ।
स्वभक्तेभ्यो नित्यं वितरसि जनोद्धारिणि शुभे
विहीने दीने मय्यपि कृपय किंचित् करुणया ॥ ९॥
सदैव त्वत्पाणौ विधृतमरविन्दं द्युतिकरं
त्विदं दर्शं दर्शं रविशशिसमं नेत्रयुगलम् ।
विचिन्त्य स्वां वृत्तिं भ्रमविषमजालेऽस्ति पतित-
मिदं मन्ये नोचेत् कथमिति भवेदर्ध-विकचम् ॥ १०॥
स्वयं मातः किंवा त्वमसि जलजानामपि खनि-
र्यतस्ते सर्वाङ्गं कमलमयमेवास्ति किमु नो ।
तथा भीत्या तस्माच्छरणमुपयातः कमलराट् -
प्रयुञ्जानोऽश्रान्तं भवति तदिहैवासनविधौ ॥ ११॥
दिवौकोभिर्वन्द्ये विकसित सरोजाक्षि सुखदे
कृपादृष्टेर्वृष्टिः सुनिपतति यस्योपरि तव ।
तदीया वाञ्छा किं द्रुतमनु विधेयास्ति सकला
अतोमन्तोस्तन्तून् मम सपदि छित्वाऽम्ब सुखय ॥ १२॥
करेऽक्षाणां माला प्रविलसति या तेऽतिविमले
किमर्थं सा कान् वा गणयसि जनान् भक्ति निरतान् ।
जपन्ती कं मन्त्रं प्रशमयसि दुःखं जनिजुषा
मये का वा वाञ्छा तव वरिवृति त्वत्र वरदे ॥ १३॥
न मन्ये धन्येऽहं त्ववितथमिदं लोकगदितं
ममात्रोक्तिर्मत्वा कमलमिव फुल्लं तव करम् ।
विजृम्भा संयुक्त द्युतिमयमिदं कोकनदमि-
त्यरं जानानेयं मधुकरततिः संविलसति ॥ १४॥
महामोहाम्भोधौ मम निपतिता जीवनतरि-
र्निरालम्बा दोला चलित दुरवस्थामधिगता ।
जलावर्त व्यालो ग्रसितुमभितो वाञ्छति च तां
करालम्बं दत्वा भगवति द्रुतं तारय शिवे ॥ १५ ।
दधानासित्वं यत् स्ववपुषि पयोधारि-युगल-
मिति श्रुत्वा लोकैर्मम मनसि चिन्ता समभवत् ।
कथं स्यात् सा तस्मादलक लतिका मस्तक भुवि
शिरोद्यां हृद्येयं जलदपटली खेलति किल ॥ १६॥
तथा तत्रैवोपस्थितिमपि निशीथिन्यधिपतेः
प्रपश्यामि श्यामे सह सहचरैस्तारक गणैः ।
अहोरात्रः क्रीडा परवशमितास्तेऽपि चकिता-
श्चिरं चिक्रीडन्ते तदपि महदाश्चर्य-चरितम् ॥ १७॥
यदाहुस्तं मुक्ता पटल जटितं रत्न मुकुटं
न धत्ते तेषां सा वचनरचना साधुपदवीम् ।
निशैषा केशास्तु नहि विगत वेशा ध्रुवमिति
प्रसन्नाऽध्यासन्ना विधुपरिषदेषा विलसति ॥ १८॥
त्रिबीजे हे देवि त्रि प्रणवसहिते त्र्यक्षरयुते
त्रिमात्रा राजन्ते भुवनविभवे ह्योमितिपदे ।
त्रिकालं संसेव्ये त्रिगुणवति च त्रिस्वरमयि
त्रिलोकेशैः पूज्ये त्रिभुवनभयात्त्राहि सतततम् ॥ १९॥
न चन्द्रो नैवेमे नभसि वितता तारकगणाः
त्विषां राशी रम्या तव चरणयोरम्बुनिचये ।
पतित्वा कल्लोलैः सह परिचयाद्विस्तृतिमिता
प्रभा सैवाऽनन्ता गगनमुकुरे दीव्यति सदा ॥ २०॥
त्वमेव ब्रह्माणी त्वमसि कमला त्वं नगसुता
त्रिसन्ध्यं सेवन्ते चरणयुगलं ये तव जनाः ।
जगज्जाले तेषां निपतित जनानामिह शुभे
समुद्धारार्थं किं मतिमति मतिस्ते न भवति ॥ २१॥
अनेकैः पापौघैर्लुलित वपुषं शोक सहितं
लुठन्तं दीनं मां विमल पदयो रेणुषु तव ।
गलद्बाष्पं शश्वद् जननि सहसाश्वासनवचो
ब्रुवाणोत्तिष्ठ त्वं अमृतकणिकां पास्यसि कदा ॥ २२॥
न वा मादृक् पापी नहि तव समा पापहरणी
न दुर्बुद्धिर्मादृक् न च तव समा धी वितरिणी ।
न मादृग् गर्विष्ठो नहि तव समा गर्वहरणी
हृदि स्मृत्वा ह्येवं मामयि कुरु यथेच्छा तव यथा ॥ २३॥
दरीधर्ति स्वान्तेऽक्षर वर चतुर्विंशतिमितं
त्वदन्तर्मन्त्रं यत्त्वयि निहित चेतो हि मनुजः ।
समन्ताद् भास्वन्तं भवति भुवि सञ्जीवनवनं
भवाम्भोधेः पारं व्रजति स नितान्तं सुखयुतः ॥ २४॥
भगवति लहरीयं रुद्रदेव प्रणीता
तव चरण सरोजे स्थाप्यते भक्तिभावैः ।
कुमतितिमिरपङ्कस्याङ्कमग्नं सशङ्कं
अयि खलु कुरु दत्वा वीतशङ्कं स्वमङ्कम् ॥ २५॥
॥ इति श्री रुद्रदेव विरचित गायत्री लहरी समाप्ता ॥