गणेश स्तोत्र

उच्छिष्टगणेशकवचम्

उच्छिष्टगणेशकवचम्


अथ श्रीउच्छिष्टगणेशकवचं प्रारम्भः
देव्युवाच ॥

देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक ।
विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥

येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् ।
तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥

ईश्वर उवाच ॥

श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥

अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् ।
एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥ ४॥

सिन्धुतीरे च गङ्गायाः कूले वृक्षतले जले ।
सर्वदेवालये तीर्थे लब्ध्वा सम्यग्जपं चरेत् ॥ ५॥

स्नानशौचादिकं नास्ति नास्ति निर्वंधनं प्रिये ।
दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥ ६॥

सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति ।
निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥ ७॥

दुष्टाय परशिष्याय घातकाय शठाय च ।
वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८॥

अशक्ताय च क्रूराय गुरूद्रोहरताय च ।
न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ९॥

गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः ।
तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥ १०॥

गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् ।
देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्टैर्महामनुः ॥ ११॥

आकाशे च फलं प्राप्तं नान्यथा वचनं मम ।
एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२॥

अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् ।
येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥ १३॥

ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् ।
त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥ १४॥

हृदये पातु मां नित्यमुच्छिष्टगणदेवता ।
गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥ १५॥

कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा ।
पार्श्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥ १६॥

शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् ।
हस्तिवक्त्रश्च शिरसी लम्बोदरो ललाटके ॥ १७॥

उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने ।
पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥ १८॥

भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः ।
तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥ १९॥

गंबीजं च तथा रक्षेत्तथा त्वग्रे च पृष्ठके ।
सर्वकामश्च हृत्पातु पातु मां च करद्वये ॥ २०॥

उच्छिष्टाय च हृदये वह्निबीजं तथोदरे ।
मायाबीजं तथा कट्यां द्वावूरू सिद्धिदायकः ॥ २१॥

जङ्घायां गणनाथश्च पादौ पातु विनायकः ।
शिरसः पादपर्यन्तमुच्छिष्टगणनायकः ॥ २२॥

आपादमस्तकान्तं च उमापुत्रश्च पातु माम् ।
दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥ २३॥

अहर्निशं च मां पातु मदचञ्चललोचनः ।
जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥ २४॥

राजद्वारे घोरपथे पातु मां गणनायकः ।
इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् ॥ २५॥

त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भुजः ।
बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६॥

सर्वसिद्धिप्रदं देवि कवचमृद्धिसिद्धिदम् ।
एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥ २७॥

इदं रहस्यं कवचमुच्छिष्टगणनायकम् ।
सर्ववर्मसु देवेशि इदं कवचनायकम् ॥ २८॥

एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते ।
धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥ २९॥

शिवपुत्रः सदा पातु पातु मां सुरार्चितः ।
गजाननः सदा पातु गणराजश्च पातु माम् ॥ ३०॥
सदा शक्तिरतः पातु पातु मां कामविह्वलः ।
सर्वाभरणभूषाढयः पातु मां सिन्दूरार्चितः ॥ ३१॥

पञ्चमोदकरः पातु पातु मां पार्वतीसुतः ।
पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥ ३२॥

गदाधरः सदा पातु पातु मां काममोहितः ।
नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥ ३३॥

अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु ।
भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥ ३४॥

उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः ।
नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥ ३५॥

प्रसन्नवदनः पातु पातु मां भगवल्लभः ।
जटाधरः सदा पातु पातु मां च किरीटिकः ॥ ३६॥

पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् ।
नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥ ३७॥

वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः ।
क्षेत्रपः पिशितं पातु पातु मां श्रुतिपाठकः ॥ ३८॥

भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः ।
स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥ ३९॥

श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः ।
श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥ ४०॥

पारभद्रगणेशश्च पातु सप्तगणेश्वरः ।
प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥ ४१॥

हरबीजगणेशश्च भद्राक्षगणनायकः ।
दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥ ४२॥

लवणस्य गणाध्यक्षो मृत्तिकागणनायकः ।
तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्चरः ॥ ४३॥

स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः ।
नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥ ४४॥

पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः ।
मयूरवाहनः पातु पातु मां मूषकासनः ॥ ४५॥

पातु मां देवदेवेशः पातु मामृषिपूजितः ।
पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६॥

त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः ।
रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥ ४७॥

भूमिस्थं च सदा पातु पातलस्थं च पातु माम् ।
अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥ ४८॥

चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् ।
बिल्वस्थं च वनस्थं च पातु मां सर्वतस्तनम् ॥ ४९॥

राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः ।
भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥ ५०॥

इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् ।
उच्छिष्टगणनाथस्य समन्त्रं कवचं परम् ॥ ५१॥

स्मरणाद्भूपतित्वं च लभते साङ्गतां ध्रूवम् । स्मरणाद्भूभुजत्वं
वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥ ५२॥

प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः ।
चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३॥

सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् ।
सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४॥

जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे ।
स्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥ ५५॥

राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् ।
सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥ ५६॥

भूतप्रेतपिशाचादियक्षराक्षसजे भये ।
राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥ ५७॥

राजमृत्युहरं देवि कवचं कामधेनुवत् ।
अनन्तफलदं देवि सति मोक्षं च पार्वति ॥ ५८॥

कवचेन विना मन्त्रं यो जपेद्गणनायकम् ।
इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९॥

इति परमरहस्यं देवदेवार्चनं च
कवचपरमदिव्यं पार्वती पुत्ररूपम् ।
पठति परमभोगैश्वर्यमोक्षप्रदं च
लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥

var
(इति परमरहस्यंदेवदेवार्चितस्य-
कवचमुदितमेतत्पार्वतीशेन देव्यै
पठति स लभ्यते वैभक्तितो भक्तवर्यः
प्रचुरसकलसौख्यं शक्तिपुत्रप्रसादात् ॥)

॥ इति श्रीरुद्रयामलतन्त्रे उमामहेश्वरसंवादे
श्रीमदुच्छिष्टगणेशकवचं समाप्तम् ॥