गणेश स्तोत्र

श्रीमहागणपतिपञ्चकम्

श्रीमहागणपतिपञ्चकम्

प्रातः स्मरामि गणनाथमुखारविन्दं
नेत्रत्रयं मदसुगन्धितगण्डयुग्मम् ।
शुण्डञ्च रत्नघटमण्डितमेकदन्तं
ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम् ॥ १॥

प्रातः स्मरामि गणनाथभुजानशेषा-
नब्जादिभिर्विलसितान् लसिताङ्गदैश्च ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डान्
वाञ्छाधिकं प्रतिदिनं वरदानदक्षान् ॥ २॥

प्रातः स्मरामि गणनाथविशालदेहं
सिन्दूरपुञ्जपरिरञ्जितकान्तिकान्तम् ।
मुक्ताफलैर्मणिगणैर्लसितं समन्तात्
श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या ॥ ३॥

प्रातः स्तुवे गणपतिं गणराजराजं
मोदप्रमोदसुमुखादिगणैश्च जुष्टम् ।
शक्त्यष्टभिर्विलसितं नतलोकपालं
भक्तार्तिभञ्जनपरं वरदं वरेण्यम् ॥ ४॥

प्रातः स्मरामि गणनायकनामरूपं
लम्बोदरं परमसुन्दरमेकदन्तम् ।
सिद्धिप्रदं गजमुखं सुमुखं शरण्यं
श्रेयस्करं भुवनमङ्गलमादिदेवम् ॥ ५॥

यः श्लोकपञ्चकमिदं पठति प्रभाते
भक्त्या गृहीतचरणो गणनायकस्य ।
तस्मै ददाति मुदितो वरदानदक्षः
चिन्तामणिर्निखिलचिन्तितमर्थकामम् ॥ ६॥

इति श्रीदत्तात्रेयानन्दनाथविरचितं श्रीमहागणपतिपञ्चकं सम्पूर्णम् ॥