गणेश स्तोत्र

श्रीगणेशमानसपूजा २

श्रीगणेशमानसपूजा २


नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितं
स्नानं जाह्नविवारिणा गणपते पिताम्बरं गृह्यताम् ।
कण्ठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुण्डले
नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ १॥

भाले चर्चितकेशरं मृगमदामोदाङ्कितं चन्दनं
नानावृक्षसमुद्गतं सुकुसुमं मन्दारदूर्वाशमीः ।
गुग्गूल्लोद्भवधूपकं विरचितं दीपं त्वदग्रे स्थितं
भक्ष्यं मोदकसंयुतं गणपते क्षीरोदनं गृह्यताम् ॥ २॥

ताम्बूलं मनसा मया विरचितं जम्बूफलं दक्षिणां
साष्टाङ्गं प्रणतोऽस्मि ते मम कृतां पूजा गृहाण प्रभो ।
मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिङ्गने
स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादाम्बुजे ॥ ३॥

माता गणेशश्च पिता गणेशो
भ्राता गणेशश्च सखा गणेशः ।
विद्या गणेशो द्रविणं गणेशः
स्वामी गणेशः शरणं गणेशः ॥ ४॥

इतो गणेशः परतो गणेशः
यतो यतो यामि ततो गणेशः ।
गणेशदेवादपरं न किञ्चित्
तस्मात् गणेशं शरणं प्रपद्ये ॥ ५॥