गणेश स्तोत्र

श्रीगणपतिगकाराष्टोत्तरशतनामावली

श्रीगणपतिगकाराष्टोत्तरशतनामावली

ॐ गकाररूपाय नमः ।
ॐ गम्बीजाय नमः ।
ॐ गणेशाय नमः ।
ॐ गणवन्दिताय नमः ।
ॐ गणाय नमः ।
ॐ गण्याय नमः ।
ॐ गणनातीतसद्गुणाय नमः ।
ॐ गगनादिकसृजे नमः ।
ॐ गङ्गासुताय नमः ।
ॐ गङ्गासुतार्चिताय नमः । १०
ॐ गङ्गाधरप्रीतिकराय नमः ।
ॐ गवीशेड्याय नमः ।
ॐ गदापहाय नमः ।
ॐ गदाधरनुताय नमः ।
ॐ गद्यपद्यात्मककवित्वदाय नमः ।
ॐ गजास्याय नमः ।
ॐ गजलक्ष्मीपते नमः ।
ॐ गजावाजिरथप्रदाय नमः ।
ॐ गञ्जानिरतशिक्षाकृतये नमः ।
ॐ गणितज्ञाय नमः । २० (ॐ गणोत्तमाय नमः ।)

ॐ गण्डदानाञ्चिताय नमः ।
ॐ गन्त्रे नमः ।
ॐ गण्डोपलसमाकृतये नमः ।
ॐ गगनव्यापकाय नमः ।
ॐ गम्याय नमः ।
ॐ गमनादिविवर्जिताय नमः ।
ॐ गण्डदोषहराय नमः ।
ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः ।
ॐ गतागतज्ञाय नमः ।
ॐ गतिदाय नमः । ३०
ॐ गतमृत्यवे नमः ।
ॐ गतोद्भवाय नमः ।
ॐ गन्धप्रियाय नमः ।
ॐ गन्धवाहाय नमः ।
ॐ गन्धसिन्धुरवृन्दगाय नमः ।
ॐ गन्धादिपूजिताय नमः ।
ॐ गव्यभोक्त्रे नमः ।
ॐ गर्गादिसन्नुताय नमः ।
ॐ गरिष्ठाय नमः ।
ॐ गरभिदे नमः । ४०
ॐ गर्वहराय नमः ।
ॐ गरलिभूषणाय नमः ।
ॐ गविष्ठाय नमः ।
ॐ गर्जितारावाय नमः ।
ॐ गभीरहृदयाय नमः ।
ॐ गदिने नमः ।
ॐ गलत्कुष्ठहराय नमः ।
ॐ गर्भप्रदाय नमः ।
ॐ गर्भार्भरक्षकाय नमः ।
ॐ गर्भाधाराय नमः । ५०
ॐ गर्भवासिशिशुज्ञानप्रदाय नमः ।
ॐ गरुत्मत्तुल्यजवनाय नमः ।
ॐ गरुडध्वजवन्दिताय नमः ।
ॐ गयेडिताय नमः ।
ॐ गयाश्राद्धफलदाय नमः ।
ॐ गयाकृतये नमः ।
ॐ गदाधरावतारिणे नमः ।
ॐ गन्धर्वनगरार्चिताय नमः ।
ॐ गन्धर्वगानसन्तुष्टाय नमः ।
ॐ गरुडाग्रजवन्दिताय नमः । ६०
ॐ गणरात्रसमाराध्याय नमः ।
ॐ गर्हणास्तुतिसाम्यधिये नमः ।
ॐ गर्ताभनाभये नमः ।
ॐ गव्यूतिदीर्घतुण्डाय नमः ।
ॐ गभस्तिमते नमः ।
ॐ गर्हिताचारदूराय नमः ।
ॐ गरुडोपलभूषिताय नमः ।
ॐ गजारिविक्रमाय नमः ।
ॐ गन्धमूषवाजिने नमः ।
ॐ गतश्रमाय नमः । ७०
ॐ गवेषणीयाय नमः ।
ॐ गहनाय नमः ।
ॐ गहनस्थमुनिस्तुताय नमः ।
ॐ गवयच्छिदे नमः ।
ॐ गण्डकभिदे नमः ।
ॐ गह्वरापथवारणाय नमः ।
ॐ गजदन्तायुधाय नमः ।
ॐ गर्जद्रिपुघ्नाय नमः ।
ॐ गजकर्णिकाय नमः ।
ॐ गजचर्मामयच्छेत्रे नमः । ८०
ॐ गणाध्यक्षाय नमः ।
ॐ गणार्चिताय नमः ।
ॐ गणिकानर्तनप्रीताय नमः ।
ॐ गच्छते नमः ।
ॐ गन्धफलीप्रियाय नमः ।
ॐ गन्धकादिरसाधीशाय नमः ।
ॐ गणकानन्ददायकाय नमः ।
ॐ गरभादिजनुर्हर्त्रे नमः ।
ॐ गण्डकीगाहनोत्सुकाय नमः ।
ॐ गण्डूषीकृतवाराशये नमः । ९०
ॐ गरिमालघिमादिदाय नमः ।
ॐ गवाक्षवत्सौधवासिने नमः ।
ॐ गर्भिताय नमः ।
ॐ गर्भिणीनुताय नमः ।
ॐ गन्धमादनशैलाभाय नमः ।
ॐ गण्डभेरुण्डविक्रमाय नमः ।
ॐ गदिताय नमः ।
ॐ गद्गदारावसंस्तुताय नमः ।
ॐ गह्वरीपतये नमः ।
ॐ गजेशाय नमः । १००
ॐ गरीयसे नमः ।
ॐ गद्येड्याय नमः ।
ॐ गतभिदे नमः ।
ॐ गदितागमाय नमः ।
ॐ गर्हणीयगुणाभावाय नमः ।
ॐ गङ्गादिकशुचिप्रदाय नमः ।
ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः । १०८

॥ इति श्रीगणपतिगकाराष्टोत्तरशतनामावली समाप्ता ॥