श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्
श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
ॐ गकाररूपो गम्बीजो गणेशो गणवन्दितः ।
गणनीयो गणो गण्यो गणनातीतसद्गुणः ॥ १॥
गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः ।
गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥ २॥
गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ ३॥
गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः ।
गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥ ४॥
गगनव्यापको गम्यो गमानादिविवर्जितः ।
गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥ ५॥
गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।
गन्धप्रियो गन्धवाहो गन्धसिन्दुरवृन्दगः ॥ ६॥
गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः ।
गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥ ७॥
गविष्ठो गर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ ८॥
गर्भाधारो गर्भवासिशिशुज्ञानप्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥ ९॥
गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारी च गन्धर्वनगरार्चितः ॥ १०॥
गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।
गणरात्रसमाराध्यो गर्हणस्तुतिसाम्यधीः ॥ ११॥
गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ।
गर्हिताचारदूरश्च गरुडोपलभूषितः ॥ १२॥
गजारिविक्रमो गन्धमूषवाजी गतश्रमः ।
गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥ १३॥
गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।
गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ १४॥
गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः ।
गणिकानर्तनप्रीतो गच्छन्गन्धफलीप्रियः ॥ १५॥
गन्धकादिरसाधीशो गणकानन्ददायकः ।
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥ १६॥
गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥ १७॥
गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।
गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥ १८॥
गजेशाय गरीयसे गद्येड्यो गतभीर्गदितागमः । ?
गर्हणीयगुणाभावो गङ्गादिकशुचिप्रदः ॥ १९॥
गणनातीतविद्याश्रीबलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ २०॥
पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ २१॥
यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ २२॥
एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ २३॥
॥ इति श्रीगणपति गकाराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥