गणेशस्तवः पञ्चदेवैः कृतः
गणेशस्तवः पञ्चदेवैः कृतः
श्रीगणेशाय नमः ।
पञ्च देवा ऊचुः ।
नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः ।
चतुर्भुजाय देवाय पाशाङ्कुशधराय च ॥ १०॥
लम्बोदर नमस्तुभ्यं नाभिशेषाय ते नमः ।
महते चैकदन्ताय शूर्पकर्णाय ते नमः ॥ ११॥
सिन्दूरारुणदेहाय रक्तवर्णधराय च ।
महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥ १२॥
सिद्धिबुद्धियुतायैव विभूतिसहिताय च ।
चिन्तामणिधरायैव तथा चिन्तामणे नमः ॥ १३॥
अव्यक्ताय परेशाय परेषां च पराय ते ।
मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥ १४॥
नानामायाधरायैव मायिनां मोहकारिणे ।
हेरम्बाय नमस्तुभ्यं ब्रह्मणां पतये नमः ॥ १५॥
दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् ।
सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥ १६॥
स्तुवतां तु पुरःप्रादुरासीद्देवो गजाननः ।
तं दृष्ट्वा दण्डवत् सर्वे प्रणता भक्तिभावतः ॥ १७॥
तानुत्थाप्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् ।
स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥ १८॥
यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः ।
वाञ्छितं पूरयिष्याम्यं ते मे सायुज्यमाप्नुयात् ॥ १९॥
शृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः ।
भवन्तो मदधीनाश्च कलांशा नात्र संशयः ॥ २०॥
क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् ।
किमर्थ मनसि भ्रान्ता जाताः पूर्णात्मका अपि ॥ २१॥
श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः ।
सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॥ २२॥
इति पञ्चदेवैः कृतः गणेशस्तवः सम्पूर्णः । १.१५