गणेशलीलास्तुतिः २
गणेशलीलास्तुतिः २
ॐलाक्षासिन्दूरवर्णं सुरवरनमितं मोदकैर्मोदितास्यं
हस्ते दन्तं ददानं हिमकरसदृशं तेजसोग्रं त्रिनेत्रम् ।
दक्षे रत्नाक्षसूत्रं वरपरशुधरं साखु सिंहासनस्थं
गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं विघ्नभक्षं नमामि ॥ १॥
गौरीपुत्रं त्रिनेत्रं गजमुखसहितं नागयज्ञोपवीतं
पद्माक्षं सर्वभक्षं सकलजनप्रियं सर्वगन्धर्वपूज्यम् ।
सम्पूर्णभालचन्द्रं वरदमतिबलं हन्तृकं चासुराणां
हेरम्बमादिदेवं गणपतिममलं सिद्धिदातारमीडे ॥ २॥
यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये ।
विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशकाय ॥ ३॥
गजवदनमचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रं
बृहदुदरमनन्तं दन्तमाले ददानम् ।
परशुचषकपद्मद्वन्द्वहस्तारविन्दं
हरियुगलनिविष्टं श्रीगणेशं भजामि ॥ ४॥
अभयवरदपाणिं लाड्डूपात्रं सुदन्तं
नरपतिजपमालां नागपाशाङ्कुशं च ।
कनकमयविचित्रं मुद्गरं पाणिपद्मे
परशुमपि वहन्तं विघ्नराजं नमामि ॥ ५॥
विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं
साक्षात्सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् ।
प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं
कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ ६॥
उच्चैर्ब्रह्माण्डखण्डद्वितय सहचरं कुम्भयुग्मं दधानः
प्रेङ्खन्नागारि पक्षप्रतिभटविकट श्रोत्रतालाभिरामः ।
देव्याः शम्भोरपत्यं भुजगपतितनुस्पर्धि वर्धिष्णुहस्त-
स्त्रैलोक्याश्चर्यमूर्तिः स भवतु सततं भूतये कुञ्जरास्यः ॥ ७॥
नमो नमो गजेन्द्राय एकदन्तधराय च ।
नमः ईश्वरपुत्राय गणेशाय नमो नमः ॥ ८॥
माता यस्य उमादेवी पिता यस्य महेश्वरः ।
मूषको वाहनं यस्य स नः पायाद्गणाधिपः ॥ ९॥
वन्दे वराभयपिनाककपालखड्गखट्वाङ्गदन्तमुसलाब्जकरं त्रिनेत्रम् ।
भीमं जटामुकुटिनं कमलासनस्थं काश्मीरवासममलं गणराजमाद्यम् ॥ १०॥
रक्ताङ्गरागं परश्वक्षमालासुदन्तपाणिं सितलड्डूपात्रम् ।
गजाननं सिंहरथाधिरूढं गणेश्वरं विघ्नहरं नमामि ॥ ११॥
संसिद्ध्यर्थनमत्सुरासुरमिलन्मौलिस्थितप्रोल्लसत्-
सद्रत्न प्रभव प्रकृष्ट विभव प्रेङ्खन्मयूखोज्ज्वलत् ।
श्रेयो विघ्नमहाभयप्रशमने दिव्यं यदेकौषधं
भूयान्नो द्विरदाननाङ्घ्रिकमलद्वन्द्वं तदिष्टाप्तये ॥ १२॥
बिभ्रत्पञ्चमुखानि योयमुदितः स्वातन्त्र्यमात्रात्मना
शक्तेर्वैभवतः परप्रतिहतद्वैताख्यविघ्नव्ययः ।
एकीभूतमुखः सकारणगणानुकारिणा तेजसा
देवःसंप्रति भासतां मयि यथा तत्त्वं गणाधीश्वरः ॥ १३॥
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्लिष्टं
प्रियया समपद्मद्यमकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्पल-
व्रीह्यग्रस्थविषाणरत्न कलशान् हस्तैर्वहन्तं भजे ॥ १४॥
देव स्थूलतनुं गजेन्द्रवदनं लम्बोदर सुन्दरं
विघ्नेशं मदगन्धलोलमधुपव्यालोलगण्डस्थलम् ।
दन्ताघातविदारिताहितजनं सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥ १५॥
द्विचतुर्दशवर्णभूषिताङ्गं मुसलाम्भोजधरं महोपवीतम् ।
द्विमृगाधिपगामिनं त्रिनेत्रं हरपुत्रं द्विरदाननं भजेऽहम् ॥ १६॥
जटामुकुटमण्डितं त्रिनयनं भजे षड्भुजं
सतीसरनिवासिनमसुरनाशनं लोहितम् ।
वराभयपिनाकिनं त्वसिकपालभृच्छूलिनं
गणैर्वृतगणेश्वरं कमलगं च मीमाकृतिम् ॥ १७॥
गजाननं भूतगणाधिसेवितं कपित्थजाम्बूफलसारभक्षणम् ।
उमापतेः शोकविनाशकारणं नमामि विश्वेश्वरमाशु सिद्धिदम् ॥ १८॥
लम्बोदरैकवदनः कमलासनस्थ-
श्चन्द्रार्धमौलिरमलो भुजगेन्द्रहारः ।
भीमोऽष्टबाहुरुदितार्कमरीचिरष्ट
सिद्धिप्रदो भवतु वाञ्छितसिद्धिदोनः ॥ १९॥
योऽभ्यर्चितः सुरगणैर्वरसिद्धिहेतोश्छेत्तं
भयानि च करे परशुं दधानः ।
देवः स शम्भुदयितापरिवर्धित
श्रीर्विघ्नान्निवारयतु वारणराजवक्त्रः ॥ २०॥
इति गणेशलीलास्तुतिः समाप्ता ।