गणेश स्तोत्र

गजाननस्तुतिः लोभासुरेण प्रोक्ता

गजाननस्तुतिः लोभासुरेण प्रोक्ता

मुद्गल उवाच -
तं प्रणम्य महादैत्यो लोभः परशुं उत्तमम् ।
कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥

लोभासुर उवाच ।
नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे ।
नानाशस्त्राणि शस्त्रेश! त्वदाधाराणि ते नमः ॥ ४॥

प्रलयानलसङ्काशं स्वरूपं धरते नमः ।
अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥

दृश्यादृश्यमयायैव सर्वदर्पहराय ते ।
धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६॥

साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् ।
तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७॥

शरणागतपालाय सदा स्वानन्दसंस्थितः ।
रक्ष मां भयभीतं भोः परशो! ते नमो नमः ॥ ८॥

नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने ।
बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४॥

हेरम्बाय सदा स्वानन्दवासिने महात्मने ।
परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५॥

सुरासुरप्रियकर सुरासुरमयाय ते ।
लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६॥

देवानां पालकायैव दैत्यानां रक्षकाय ते ।
सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७॥

लम्बोदराय देवेश! दैत्येश! मूषकध्वज! ।
अनादये च सर्वेषां आदिरूपाय ते नमः ॥ १८॥

आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ।
ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९॥

ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते ।
शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २०॥

एकदन्ताय सर्वेश! वक्रतुण्डाय ते नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१॥

सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२॥

बीजरूपं गणाधीश! जगतां ब्रह्मणां गजम् ।
चिह्नेन लभ्यसे तेन गजानन! नमोऽस्तु ते ॥ २३॥

बोधहीनाय रूपाय सदा साङ्ख्यमयाय च ।
विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४॥

यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः ।
तं किं स्तौमि गणाधीश! नमस्ते वरदो भव ॥ २५॥

त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो ! ।
तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६॥

एवं स्तुत्वा महालोभः प्रणनाम गजाननम् ।
तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७॥

गजानन उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतः श्रृण्वतश्चैव लोभस्तं नैव पीडयेत् ॥ २९॥

पुत्रपाउत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दलोके स ब्रह्मभूतो भवैष्यति ॥ ३०॥

इति लोभासुरेण प्रोक्ता गजाननस्तुतिः समाप्ता । ४.४२