एकदन्तस्तुतिः मदासुरेण प्रोक्ता
एकदन्तस्तुतिः मदासुरेण प्रोक्ता
गृत्समद उवाच -
मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ १॥
मदासुर उवाच -
नमस्ते शस्त्रराजाय नमस्ते परशो महन् ।
तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २॥
एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् ।
त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ ३॥
कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥ ८॥
अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् ।
रक्ष मां भयभीतं वै शरणागतवत्सल! ॥ ५
नमस्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥
मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥
चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥
चिन्तामणिधरायैव चित्तस्थाय गजानन ! ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥
अनन्तविभवायैवानन्तमायाप्रचालक! ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥
योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥
मायाकारं शरीरं ते एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥
मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥
शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥
रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥ १८॥
इति मदासुरेण प्रोक्ता एकदन्तस्तुतिः समाप्ता । २.५४