दकारादि दुर्गासहस्रनामस्तोत्रम्
दकारादि दुर्गासहस्रनामस्तोत्रम्
॥ श्रीः ॥
॥ श्री दुर्गायै नमः ॥
॥ श्री दुर्गा सहस्रनाम स्तोत्रम् ॥
। अथ दकारादिदुर्गासहस्रनामस्तोत्रम् ।
श्री देव्युवाच
मम नामसहस्रञ्च शिवपूर्वविनिर्मितम् ।
तत्पठ्यताम् विधानेन तथा सर्वं भविश्यति ॥
इत्युक्त्वा पार्वती देवि श्रावयामास तच्चतान् ।
तदेव नामसाहस्रं दकारादि वरानने ॥
रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् ।
सर्वासाम् पूजितम् नाम श्रीदुर्गा देवता मता ॥
निजबीजम् भवेत्बीजम् मन्त्रं कीलकमुच्यते ।
सर्वाशापूरणे देवी विनियोगः प्रकीर्तितः ॥
अथ विनियोगः ।
अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य श्रीशिवः सक्षात्कर्ता ऋषिः ।
अनुष्टुप् छन्दः । श्रीदुर्गा देवता । दुँ बीजं । दुँ कीलकं ।
दुःखदारिद्र्यदौर्भाग्यरोगशोकनिवृत्तिपूर्वकं ।
श्रीदुर्गादेवीप्रीत्यर्थं च पाठे हवने च नामपारायणे च विनियोगः ।
॥ ध्यानम् ॥
दुँ दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ॥ १॥
दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २॥
दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिः परा ॥ ३॥
दुर्गमार्गसद्दस्थाली दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४॥
दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहन्त्री च दुर्गा दुष्टनिषूदिनी ॥ ५॥
दुर्गासुरहरादूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६॥
दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।
दुर्गासुरवधप्रेप्सुर्दुर्गासुरमखान्तकृत् ॥ ७॥
दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८॥
दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तनी ।
दुर्गविध्वंसनकरी दुर्गदैत्यनिकृन्तनी ॥ ९॥
दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ।
दुर्गदैत्यहरत्राता दुर्गदैत्यासृगुन्मदा ॥ १०॥
दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ।
दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११॥
दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२॥
दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३॥
दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४॥
दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गम्ध्याना दुर्गमात्मस्वरूपिणी ॥ १५॥
दुर्गमागमसन्धाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसंमता ॥ १६॥
दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७॥
दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसन्तुष्टा दुर्गमाचारतोषिता ॥ १८॥
दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९॥
दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ २०॥
दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजस्थिता ॥ २१॥
दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२॥
दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ।
दुर्गनाडीशक्रोडस्था दुर्गनाड्यत्थितोत्सुका ॥ २३॥
दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ २४॥
दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५॥
दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसन्दर्शनरता दर्रिरोपितवृश्चिका ॥ २६॥
दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजान्तकरी दीना दनुसन्तानदारिणी ॥ २७॥
दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ।
दानध्वंसिनी देवी दानवानां भयङ्करी ॥ २८॥
दानवी दानवाराध्या दानवेन्द्रवरप्रदा ।
दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ २९॥
दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवारिकृतार्चा च दानवारिविभूतिदा ॥ ३०॥
दानवारिमहानन्दा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ ३१॥
दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२॥
दानवारिधृतप्रेमा दुःखशोकविमोचिनी ।
दुःखहन्त्री दुःखदात्री दुःखनिर्मूलकारिणी ॥ ३३॥
दुःखनिर्मूलनकरी दुःखदार्यारिनाशिनी ।
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ ३४॥
दुःखहीना दुःखधारा द्रविणाचारदायिनी ।
द्रविणोत्सर्गसन्तुष्टा द्रविणत्यागतोषिका ॥ ३५॥
द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६॥
द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७॥
द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८॥
द्रविणकर्षणकरी द्रविणौघविसर्जनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९॥
दीनमाता दीनबन्धुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ ४०॥
दीनगेहकृतानन्दा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१॥
दीनमानवचेतःस्था दीनमानवहर्षदा ।
दीनदैन्यनिघातेच्छुर्दीनद्रविणदायिनी ॥ ४२॥
दीनसाधनसन्तुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ ४३॥
दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४॥
दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।
दत्तात्रेयहर्षदात्री दत्तात्रेयसुखप्रदा ॥ ४५॥
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ।
दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ ४६॥
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ।
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ ४७॥
दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ।
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ ४८॥
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ।
दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ॥ ४९॥
दत्तात्रेयज्ञानदात्री दत्तात्रेयभयापहा ।
देवकन्या देवमान्या देवदुःखविनाशिनी ॥ ५०॥
देवसिद्धा देवपूज्या देवेज्या देववन्दिता ।
देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ ५१॥
देवरम्या देवरता देवकौतुकतत्परा ।
देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ ५२॥
देवकामा देवरामा देवद्विष्टविनाशिनी ।
देवदेवप्रिया देवी देवदानववन्दिता ॥ ५३॥
देवदेवरतामम्दा देवदेववरोत्सुका ।
देवदेवप्रेमरता देवदेवप्रियंवदा ॥ ५४॥
देवदेवप्राणतुल्या देवदेवनितम्बिनी ।
देवदेवहृतमना देवदेवसुखावहा ॥ ५५॥
देवदेवक्रोडरता देवदेवसुखप्रदा ।
देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ ५६॥
देवदेवोपभुक्ता च देवदेवानुसेविता ।
देवदेवगतप्राणा देवदेवगतात्मिका ॥ ५७॥
देवदेवहर्षदात्री देवदेवसुखप्रदा ।
देवदेवमहानन्दा देवदेवविलासिनी ॥ ५८॥
देवदेवधर्मपत्नी देवदेवमनोगता ।
देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ ५९॥
देवदेवाङ्कनिलया देवदेवाङ्गशायिनी ।
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ ६०॥
देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ ६१॥
देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२॥
देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३॥
देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवहृदाश्रया ॥ ६४॥
देवदेवेष्टदेवी च देवतापसपातिनी ।
देवताभावसन्तुष्टा देवताभावतोषिता ॥ ६५॥
देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसम्भवा ॥ ६६॥
देवताभावसुखिनी देवताभाववन्दिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७॥
देवताविघ्नहन्त्री च देवताद्विष्टनाशिनी ।
देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८॥
देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताहृतमानसा ॥ ६९॥
देवताकृतपादार्चा देवताहृतभक्तिका ।
देवतागर्वमध्यस्था देवतादेवतातनुः ॥ ७०॥
दुं दुर्गायै नमो नाम्नी दुम्फण्मन्त्रस्वरूपिणी ।
दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१॥
दूरदर्शिप्रिया दुष्टा दुष्तभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२॥
दूरदर्शिसिद्धिदात्री दूरदर्शिप्रतोषिता ।
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३॥
दूरदर्शिगृहीतार्चा दूरदर्शिप्रतर्षिता ।
दूरदर्शिप्राणतुल्या दूरदर्शिसुखप्रदा ॥ ७४॥
दूरदर्शिभ्रान्तिहरा दूरदर्शिहृदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५॥
दीर्घदर्शिप्राणतुल्या दूरदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६॥
दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिहृतार्हणा ॥ ७७॥
दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८॥
दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७९॥
दयाम्बुधिर्दयासारा दयासागरपारगा ।
दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ ८०॥
दयावद्वत्सला देवी दयादानरता सदा ।
दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८१॥
दयावत्स्नेहनिरता दयावत्प्रतिपादिका ।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८२॥
दयावद्भावसन्तुष्टा दयावत्परितोषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८३॥
दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावद्देहनिलया दयाबन्धुर्दयाश्रया ॥ ८४॥
दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणासक्ता दयालुर्देहमन्दिरा ॥ ८५॥
दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ ८६॥
दयालुवशगा दीर्घा दीर्घाङ्गी दीर्घलोचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८७॥
दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।
दारुणासुरहन्त्री च दारुणासुरदारिणी ॥ ८८॥
दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८९॥
दारुणाचारनिरता दारुणोत्सवहर्षिता ।
दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ९०॥
दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।
दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९१॥
दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९२॥
दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९३॥
दाशरथीष्टसन्दात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९४॥
दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसम्पूज्या दशाननारिदेवता ॥ ९५॥
दशाननारिप्रमदा दशाननारिजन्मभूः ।
दशाननारिरतिदा दशाननारिसेविता ॥ ९६॥
दशाननारिसुखदा दशाननारिवैरिहृत् ।
दशाननारीष्टदेवी दशग्रीवारिवन्दिता ॥ ९७॥
दशग्रीवारिजननी दशग्रीवारिभाविनी ।
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९८॥
दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९९॥
दशग्रीवपुरस्या च दशग्रीववधोत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ १००॥
दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रिया वन्द्या दशग्रीवहृता तथा ॥ १०१॥
दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १०२॥
दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १०३॥
दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ १०४॥
दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १०५॥
दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रपा दृक्प्रकाशिनी ॥ १०६॥
दिगन्तरा दिगन्तस्था दिगम्बरविलासिनी ।
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ १०७॥
दिगम्बरसहचरी दिगम्बरकृतास्पदा ।
दिगम्बरहृताचित्ता दिगम्बरकथाप्रिया ॥ १०८॥
दिगम्बरगुणरता दिगम्बरस्वरूपिणी ।
दिगम्बरशिरोधार्या दिगम्बरहृताश्रया ॥ १०९॥
दिगम्बरप्रेमरता दिगम्बररतातुरा ।
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ ११०॥
दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ।
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ १११॥
दिगम्बरगणस्पर्शा मदिरापानविह्वला ।
दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ ११२॥
दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरन्तदानवद्वेष्टी दुरन्तदनुजान्तकृत् ॥ ११३॥
दुरन्तपापहन्त्री च दस्रनिस्तारकारिणी ।
दस्रमानससंस्थाना दस्रज्ञानविवर्धिनी ॥ ११४॥
दस्रसम्भोगजननी दस्रसम्भोगदायिनी ।
दस्रसम्भोगभवना दस्रविद्याविधायिनी ॥ ११५॥
दस्रोद्वेगहरा दस्रजननी दस्रसुन्दरी ।
दस्रभक्तिविधाज्ञाना दस्रद्विष्टविनाशिनी ॥ ११६॥
दस्रापकारदमनी दस्रसिद्धिविधायिनी ।
दस्रताराराधिका च दस्रमातृप्रपूजिता ॥ ११७॥
दस्रदैन्यहरा चैव दस्रतातनिषेविता ।
दस्रपितृशयज्योतिर्दस्रकौशलदायिनी ॥ ११८॥
दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११९॥
दशशीर्षारिसुप्रीता दशशीर्षवधूप्रिया ।
दशशीर्षशिरश्छेत्री दशशीर्षनितम्बिनी ॥ १२०॥
दशशीर्षहरप्राणा दशशीर्षहरात्मिका ।
दशशीर्षहराराध्या दशशीर्षारिवन्दिता ॥ १२१॥
दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिदेहिनी ॥ १२२॥
दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२३॥
दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२४॥
दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरुपदेष्टी च दैत्यगुरुनिषेविता ॥ १२५॥
दैत्यगुरुमतप्राणा दैत्यगुर्त्तापनाशिनी ।
दुरन्तदुःखशमनी दुरन्तदमनी तमी ॥ १२६॥
दुरन्तशोकशमनी दुरन्तरोगनाशिनी ।
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ १२७॥
दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२८॥
दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगोचरा ।
दूतीयागप्रिया दूती दूतीयागकरप्रिया ॥ १२९॥
दूतीयागकरानन्दा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दूतीयागप्रमोदिनी ॥ १३०॥
दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता ।
दुर्वासोऽर्चितपादा च दुर्वासोमौनभाविता ॥ १३१॥
दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता ।
दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिजा ॥ १३२॥
दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।
दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ १३३॥
दुर्वासोमुनिसञ्चारा दुर्वासोहृदयङ्गमा ।
दुर्वासोहृदयाराध्या दुर्वासोहृत्सरोजगा ॥ १३४॥
दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३५॥
दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ १३६॥
दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरापाङ्गी दयादात्री दयाश्रया ।
दस्रपूज्या दस्रमाता दस्रदेवी दरोन्मदा ॥ १३७॥
दस्रसिद्धा दस्रसंस्था दस्रतापविमोचिनी ।
दस्रक्षोभहरा नित्या दस्रलोकगतात्मिका ॥ १३८॥
दैत्यगुर्वङ्गनावन्द्यां दैत्यगुर्वङ्गनाप्रिया ।
दैत्यगुर्वङ्गनासिद्धा दैत्यगुर्वङ्गनोत्सुका ॥ १३९॥
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ।
देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ १४०॥
देवगुरुप्रेमयुता देवगुर्वनुमानिता ।
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ १४१॥
देवगुरुज्ञानदात्री देवगुरुप्रमोदिनी ।
दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ १४२॥
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ।
दैत्यस्त्रीगणपूज्या च दैत्यस्त्रीगणवन्दिता ॥ १४३॥
दैत्यस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ।
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ १४४॥
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ।
देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ १४५॥
देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ।
देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ १४६॥
देवस्त्रीगणहस्तस्थदीपमालाविलोकना ।
देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ॥ १४७॥
देवनारीकरगतवासकासवपायिनी ।
देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ १४८॥
देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ।
देवनारीविरचितपुष्पमालाविराजिता ॥ १४९॥
देवनारीविचित्राङ्गी देवस्त्रीदत्तभोजना ।
देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ १५०॥
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ।
देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ १५१॥
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ।
देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ॥ १५२॥
देवनारीकरव्यग्रतालवृन्दमरुत्सुका ।
देवनारीवेणुवीणानादसोत्कण्डमानसा ॥ १५३॥
देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ।
देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ॥ १५४॥
दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला ।
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ १५५॥
दामपूज्या दामभूषा दामोदरविलासिनी ।
दामोदरप्रेमरता दामोदरभगिन्यपि ॥ १५६॥
दामोदरप्रसूर्दामोदरपत्नीपतिव्रता ।
दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ १५७॥
दामोदराभिन्नतनुर्दामोदरकृतास्पदा ।
दामोदरकृतप्राणा दामोदरगतात्मिका ॥ १५८॥
दामोदरकौतुकाढ्या दामोदरकलाकला ।
दामोदरालिङ्गिताङ्गी दामोदरकुतूहला ॥ १५९॥
दामोदरकृताह्लादा दामोदरसुचुम्बिता ।
दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ १६०॥
दामोदरसहाढ्या च दामोदरसहायिनी ।
दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ १६१॥
दामोदरानुकूला च दामोदरनितम्बिनी ।
दामोदरबलक्रीडाकुशला दर्शनप्रिया ॥ १६२॥
दामोदरजलक्रीडात्यक्तस्वजनसौहृदा ।
दामोदरलसद्रासकेलिकौतुकिनी तथा ॥ १६३॥
दामोदरभ्रातृका च दामोदरपरायणा ।
दामोदरधरा दामोदरवैरविनाशिनी ॥ १६४॥
दामोदरोपजाया च दामोदरनिमन्त्रिता ।
दामोदरपराभूता दामोदरपराजिता ॥ १६५॥
दामोदरसमाक्रान्ता दामोदरहताशुभा ।
दामोदरोत्सवरता दामोदरोत्सवावहा ॥ १६६॥
दामोदरस्तन्यदात्री दामोदरगवेषिता ।
दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ॥ १६७॥
दमयन्तीष्टदेवी च दमयन्तीस्वरूपिणी ।
दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ १६८॥
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ।
दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ १६९॥
दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी ।
दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ १७०॥
दम्भरूपा दम्भकरी दम्भसन्तानदारिणी ।
दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ १७१॥
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ।
दत्तभौगा दत्तशोका दत्तहस्त्यादिवाहना ॥ १७२॥
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ।
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ १७३॥
दत्तसोधावनीवासा दत्तस्वर्गा च दासदा ।
दास्यतुष्टा दास्यहरा दासदासीशतप्रभा ॥ १७४॥
दाररूपा दारवासा दारवासिहृदास्पदा ।
दारवासिजनाराध्या दारवासिजनप्रिया ॥ १७५॥
दारवासिविनिर्नीता दारवासिसमर्चिता ।
दारवास्याहृतप्राणा दारवास्यरिनाशिनी ॥ १७६॥
दारवासिविघ्नहरा दारवासिविमुक्तिदा ।
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ १७७॥
दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ।
दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ १७८॥
दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ।
दम्पत्यचारनिरता दम्पत्यामोदमोदिता ॥ १७९॥
दम्पत्यामोदसुखिनी दाम्पत्याह्लादकारिणी ।
दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ १८०॥
दाम्पत्यभोगभवना दाडिमीफलभोजिनी ।
दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ॥ १८१॥
दाडिमीवृह्यसंस्थाना दाडिमीवृक्षवासिनी ।
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ १८२॥
दाडिमीफलसाम्योरुपयोधरसमन्विता ।
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ १८३॥
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ।
दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ १८४॥
दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ।
दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ १८५॥
दक्षात्मजा दक्षसूनुर्दक्षजा दक्षजातिका ।
दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ १८६॥
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ।
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ १८७॥
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ।
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ १८८॥
दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता ।
दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ १८९॥
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ।
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ १९०॥
द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ।
दोषाकरा दोषहरा दोषराशिविनाशिनी ॥ १९१॥
दोषाकरविभूषाढ्या दोषाकरकपालिनी ।
दोषाकरसहस्राभा दोषाकरसमानना ॥ १९२॥
दोषाकरमुखी दिव्या दोषाकरकराग्रजा ।
दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ १९३॥
दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा ।
दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ १९४॥
दोषाकरप्राणरूपा दोषाकरमरीचिका ।
दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ॥ १९५॥
दोषाकरशिरोभूषा दोषाकरवधूप्रिया ।
दोषाकरवधूप्राणा दोषाकरवधूमता ॥ १९६॥
दोषाकरवधूप्रीता दोषाकरवधूरपि ।
दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ १९७॥
दोषाजापमहानन्दा दोषाजापपरायणा ।
दोषापुरश्चाररता दोषापूजकपुत्रिणी ॥ १९८॥
दोषापूजकवात्सल्यकारिणी जगदम्बिका ।
दोषापूजकवैरघ्नी दोषापूजकविघ्नहृत् ॥ १९९॥
दोषापूजकसन्तुष्टा दोषापूजकमुक्तिदा ।
दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ २००॥
दुर्योधनप्रपूज्या च दुःशासनसमर्चिता ।
दण्डपाणिप्रियादण्डपाणिमाता दयानिधिः ॥ २०१॥
दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ।
दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ २०२॥
दण्डपाणिप्रियतमा दण्डपाणिमनोहरा ।
दण्डपाणिहृतप्राणा दण्डपाणिसुसिद्धिदा ॥ २०३॥
दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ।
दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ २०४॥
दण्डपाणिप्राप्तचर्चा दण्डपाण्युन्मुखी सदा ।
दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ॥ २०५॥
दण्डहस्ता दण्डपाणिर्दण्डबाहुर्दरान्तकृत् ।
दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ २०६॥
दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ।
दण्डिप्रिया दण्डिपूज्या दण्डिसन्तोषदायिनी ॥ २०७॥
दस्युपूजा दस्युरता दस्युद्रविणदायिनी ।
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ २०८॥
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ।
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ २०९॥
दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ।
दुष्टवर्गनिग्रहार्हा दूषकप्राणनाशिनी ॥ २१०॥
दूषकोत्तापजननी दूषकारिष्टकारिणी ।
दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ २११॥
दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ।
दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ २१२॥
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ।
दर्भमयी दर्भतनुर् दर्भसर्वस्वरूपिणी ॥ २१३॥
दर्भकर्माचारुरता दर्भहस्तकृतार्हणा ।
दर्भानुकूला दम्भर्या दर्वीपात्रानुदामिनी ॥ २१४॥
दमघोषप्रपूज्या च दमघोषवरप्रदा ।
दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ २१५॥
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ।
दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ २१६॥
दन्तदंष्ट्रस्यन्दना च दन्तनिर्णाशितासुरा ।
दधिपूज्य दधिप्रीता दधीचिवरदायिनी ॥ २१७॥
दधीचीष्टदेवता च दधीचिमोक्षदायिनी ।
दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ॥ २१८॥
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ।
दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ २१९॥
दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ।
दधीचिकुलदेवी च दधीचिकुलदेवता ॥ २२०॥
दधीचिकुलगम्या च दधीचिकुलपूजिता ।
दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ २२१॥
दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी ।
दधीचिकुलसम्बूता दधीचिकुलपालिनी ॥ २२२॥
दधीचिदानगम्या च दधीचिदानमानिनी ।
दधीचिदानसन्तुष्टा दधीचिदानदेवता ॥ २२३॥
दधीचिजयसम्प्रीता दधीचिजपमानसा ।
दधीचिजपपूजाढ्या दधीचिजपमालिन्का ॥ २२४॥
दधीचिजपसन्तुष्टा दधीचिजपतोषिणी ।
दधीचितपसाराध्या दधीचिशुभदायिनी ॥ २२५॥
दूर्वा दूर्वादलश्यामा दूर्वादलसमद्युतिः ।
नाम्नां सहस्रं दुर्गाया दादीनामिति कीर्तितम् ॥ २२६॥
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभेत्तु सः ।
प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ॥ २२७॥
तथाऽर्धरात्रसमये स महेश इवापरः ।
शक्तियुक्तो महारात्रौ महावीरः प्रपूजयेत् ॥ २२८॥
महादेवीं मकाराद्यैः पञ्चभिर्द्रव्यसत्तमैः ।
यः सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ॥ २२९॥
देवालये श्मशाने च गङ्गातीरे निजे गृहे ।
वाराङ्गनागृहे चैव श्रीगुरोः सन्निधावपि ॥ २३०॥
पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् ।
दुर्गानामसहस्रं हि दुर्गां पश्यति चक्षुषा ॥ २३१॥
शतावर्तनमेतस्य पुरश्चरणमुच्यते ।
स्तुतिसारो निगदितः किं भूयः श्रोतुमिच्छसि ॥ २३२॥
॥ इति कुलार्णवतन्त्रोक्तं दकारादिदुर्गासहस्रनामस्तोत्रं समाप्तम् ॥