दुर्गा स्तोत्र

श्रीदुर्गादेविकवचम्

श्रीदुर्गादेविकवचम्

श्रीगणेशाय नमः ।
ईश्वर उवाच ।
श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १॥ पठित्वा धारयित्वा

अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २॥

इदं गुह्यतमं देवि कवचं तव कथ्यते ।
गोपनीयं प्रयत्नेन सावधानवधारय ॥ ३॥

उमादेवी शिरः पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ४॥ च द्वारवासिनी

सुगन्धा नासिके पातु वदनं सर्वधारिणी । सर्वसाधिनी
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥ ५॥

अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
कण्ठं पातु महावाणी जगन्माता स्तनद्वयम् ॥ ६॥

हृदयं ललितादेवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ७॥

महाबला च जङ्घे द्वे पादौ भूतलवासिनी ।
एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका । त्रैलोक्यरक्षणात्मिके
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥ ८॥

इत्येतत्कवचं देवि महाविद्या फलप्रद ।
यः पठेत्प्रातरुत्थाय स हि तीर्थफलं लभेत् ॥ ९॥

यो न्यसेत् कवचं देहे तस्य विघ्नं न क्वचित् ।
भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥ १०॥

॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचम् सम्पूर्णम् ॥