श्रीदुर्गाकवचम्
श्रीदुर्गाकवचम्
श्रीदेव्युवाच -
पुरा श्रुतं महादेव ! शवसाधनमेव च ।
श्मशान-साधनं नाथ ! श्रुतं परममादरात् ॥ १॥
न स्त्रोतं कवचं नाथ ! श्रुतं न शवसाधने ।
कवचेन महादेव ! स्त्रोत्रेणैव च शङ्कर ! ।
कथं सिद्धिर्भवेद् देव ! क्षिप्रं तद् ब्रूहि साम्प्रतम् ॥ २॥
शिव उवाच -
शृणु देवि! वरारोहे ! दुर्गे ! परमसुन्दरि ! ।
सिद्ध्यर्थे विनियोगः स्यात् शङ्करस्य नियन्त्रणात् ॥ ३॥
अथ दुर्गाकवचम् ।
सिद्धिं सिद्धेश्वरी पातु मस्तकं पातु कालिका ।
कपालं कामिनी भालं पातु नेत्रं नगेश्वरी ॥ ४॥
कर्णौ विश्वेश्वरी पातु हृदयं जगदम्बिका ।
काली सदा पातु मुखं जिह्वां नील-सरस्वती ॥ ५॥
करौ कराल-वदना पातु नित्यं सुरेश्वरी ।
दन्तं गुह्यं नखं नाभिं पातु नित्यं हिमात्मजा ॥ ६॥
नारायणी कपोलञ्च गण्डागण्डं सदैव तु ।
केशं में भद्रकाली च दुर्गा पातु सुरेश्वरी ॥ ७॥
पुत्रान् रक्षतु मे चण्डी धनं पातु धनेश्वरी ।
स्तनौ विश्वेश्वरी पातु सर्वाङ्गं जगदीश्वरी ॥ ८॥
उग्रतारा सदा पातु महानील-सरस्वती ।
पातु जिह्वां महामाया पृष्ठं में जगदम्बिका ॥ ९॥
हरप्रिया पातु नित्यं श्मशाने जगदीश्वरी ।
सर्वान् पातु च सर्वाणी सदा रक्षतु चण्डिका ॥ १०॥
कात्यायनी कुलं पातु सदा च शववाहिनी ।
घोरदंष्ट्रा करालास्या पार्वती पातु सर्वदा ॥ ११॥
कमला पातु बाह्यं मे मन्त्रं मन्त्रेश्वरी तथा ।
इत्येवं कवचं देवि देवानामपि दुर्लभम् ॥ १२॥
यः पठेत् सततं भक्त्या सिद्धिमाप्नोति निश्चितम् ।
सिद्धिकाले समुत्पन्ने कवचं प्रपठेत् सुधीः ॥ १३॥
अज्ञात्वा कवचं देवि ! यश्च सिद्धिमुपक्रमः ।
स च सिद्धिं न वाप्नोति न मुक्तिं न च सद्गतिम् ॥ १४॥
अतएव महामाये ! कवचं सिद्धिकारकम् ।
देवानाञ्च नराणाञ्च किन्नराणाञ्च दुर्लभम् ।
पठित्वा कवचं चण्डि ! शीघ्र सिद्धिमवाप्नुयात् ॥ १५॥
महोत्पाते महादुःखे महाविपदि सङ्कटे ।
प्रपठेत् कवचं देवि ! पठित्वा मोक्षमाप्नुयात् ॥ १६॥
शून्यागारे श्मशाने ना कामरूपे कामरूपे महाघटे ।
स्ववामा-मन्दिरे कालेऽप्यथवा काममन्दिरे ।
मन्त्री मन्त्रं जपेद् बुद्ध्या भक्त्या परमया युतः ॥ १७॥
मूले दले फले वाप्यनले कालेऽनिलेऽनले ।
जले पठेत् प्राणबुद्ध्या मनसा साधकोत्तमः ॥ १८॥
इति श्रीमुण्डमालातन्त्रे षष्ठं पटलान्तर्गतं दुर्गाकवचं सम्पूर्णम् ।