त्रिपुरसुन्दरीषोडशोपचारपूजा
त्रिपुरसुन्दरीषोडशोपचारपूजा
श्रीगणेशाय नमः ।
कल्पलतादिसुरद्रुमवाटीकल्पितरत्नगृहाधिनिवासाम् ।
कल्पशतार्जितपुण्यविशेषाच्चेतसि भावनयाहमुपासे ॥ १॥
एणधराश्मकृतोन्नतधिष्ण्यं हेमविनिर्मितपादमनोज्ञम् ।
शोणशिलाफलकं च विशालं देवि सुखासनमद्य ददामि ॥ २॥
ईशमनोहररूपविलासे शीतलचन्दनकुङ्कुममिश्रम् ।
हृद्यसुवर्णघटे परिपूर्णं पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३॥
लब्धभवत्करुणोऽहमिदानीं रत्नसुमाक्षतयुक्तमनर्धम् ।
रुक्मविनिर्मितपात्रविशेषेष्वर्घ्यमिदं त्रिपुरेशि ददामि ॥ ४॥
ह्रीमिति मन्त्रजपेन सुगम्ये हेमलतोज्ज्वलदिव्यशरीरे ।
योगिमनःसमशीतजलेन ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५॥
हस्तलसत्कटकादिसुभूषा आदरतोऽम्ब वरोप्य निधाय ।
चन्दनवासितमन्त्रिततोयैः स्नानमयि त्रिपुरेशि विधेहि ॥ ६॥
सञ्चितमम्ब मया ह्यतिमूल्यं कुङ्कुमशोणमतीव मृदुत्वम् ।
शङ्करतुङ्गतराङ्कनिवासे वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७॥
कन्दलदंशुकिरीटमनर्घं कङ्कणकुण्डलनूपुरहारम् ।
अङ्गदमङ्गुलिभूषणमम्ब स्वीकुरु देवि पुराधिनिवासे ॥ ८॥
हस्तलसच्चतुरायुधजाले शस्ततरं मृगनाभिसमेतम् ।
सद्धनसारसुकुङ्कुममिश्रं चन्दनपङ्कमिदं च गृहाण ॥ ९॥
लब्धविकासकदम्वकजातीचम्पकपङ्कजकेतकयुक्तैः ।
पुष्पचयैर्मनसावचितैस्त्वामम्ब पुरेशि भवानि भजामि ॥ १०॥
ह्रीम्पदशोभिमहामनुरूपे धूरसिमन्त्रवरेण मनोज्ञम् ।
अष्टसुगन्धरजःकृतमाद्ये धूपमिमं त्रिपुरेशि ददामि ॥ ११॥
सन्तमसापहमुज्ज्व्लपात्रे गव्यघृतैः परिवर्धितदेहम् ।
चम्पककुड्मलवृन्दसमानं दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२॥
कल्पितमद्य धियाऽमृतकल्पं दुग्धसितायुतमन्नविशेषम् ।
माषविनिर्मिलपूपसहस्रं स्वीकुरु देवि निवेदनमाद्ये ॥ १३॥
लङ्घितकेतकवर्णविशेषैः शोधितकोमलनागदलैश्च ।
मौक्तिकचूर्णयुतैः क्रमुकाद्यैः पूर्णतराम्ब पुरस्तव पात्री ॥ १४॥
ह्रींत्रयपूरितमन्त्रविशेषं पञ्चदशीमपि षोडशरूपम् ।
सञ्चितपापहरं च जपित्वा मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५॥
श्रीपदपूर्णमहामनुरूपे श्रीशिवकाममहेश्वरजाये ।
श्रीगुहवन्दितपादपयोजे श्रीललितापरमेशि नमस्ते ॥ १६॥
इति श्रीत्रिपुरसुन्दरीषोडशोपचारपूजा सम्पूर्णा ॥