देवी स्तोत्र

त्रिपुरसुन्दरी पञ्चरत्नस्तोत्रम्

त्रिपुरसुन्दरी पञ्चरत्नस्तोत्रम्

नीलालकां शशिमुखीं नवपल्लवोष्ठीं
चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।
पद्मेक्षणां मुकुरसुन्दरगण्डभागां
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ १॥

श्रीकुन्दकुड्मलशिलोज्ज्वलदन्तवृन्दां
मन्दस्मितद्युतितिराहितचारुवाणीम् ।
नानामणिस्थगितहारसुचारुकण्ठीं
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ २॥

पीनस्तनीं घनभुजां विपुलाब्जहस्तां
भृङ्गावलीजितसुशोभितरोमराजिम् ।
मत्तेभकुम्भकुचभारसुनम्रमद्ध्यां
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ३॥

रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-
मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।
हेमाम्बरां करधृताञ्चितखड्गवल्लीं
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ४॥

मत्तेभवक्त्रजननीं मृडदेहयुक्तां
शैलाग्रमद्ध्यनिलयां वरसुन्दराङ्गीम् ।
कोटीश्वराख्यहृदिसंस्थितपादपद्मां
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ५॥

बाले! त्वत्पादयुगलं ध्यात्वा संप्रति निर्मितम् ।
नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६॥

इति श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तोत्रं सम्पूर्णम् ।