देवी स्तोत्र

श्रीताराध्यानम्

श्रीताराध्यानम्


१. विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थिताम् ।
कर्त्रीखड्गकपालनीलनलिनैः राजत्करां नीलभाम् ॥

काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरकाम् ।
आप्तैर्नागवरैर्विभूषिततनुं चारक्तनेत्रत्रयाम् ॥

पिङ्गैकाग्रजटां लसत्सुरसनां दंष्ट्राकरालाननाम् ।
हस्तैश्चापि वरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ॥

अक्षेभ्येण विराजमानशिरसं स्मेराननाम्भोरुहाम् ।
तारं शावहृदासनां दृढकुचामम्बां त्रिलोक्यां भजे ॥

२. श्वेताम्बरां शारदचन्द्रकान्तिं सद्भूषणां चन्द्रकलावतंसाम् ।
कर्त्रीकपालान्वितपादपद्मां तारां त्रिनेत्रां प्रभजेऽखिलर्द्ध्यै ॥

३. प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा ।
खड्गेन्दीवरकर्त्रिखर्परभुजा हुङ्कारबीजोद्भवा ॥

खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता ।
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥

४. सात्त्विकमूर्तिध्यानम् ॥

श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् ।
चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥

वराभये पाशशक्ती अक्षस्रक्पुष्पमालिके ।
शब्दपाथोनिधेर्मध्ये तारां स्थितिकरीं भजे ॥

५. राजसमूर्तिध्यानम् ॥

रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् ।
एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥

अक्षमालां पानपात्रमभयं वरमुत्तमम् ।
श्वेतद्वीपस्थितां वन्दे तारां स्थितिपरायणाम् ॥

६. तामसमूर्तिध्यानम् ॥

कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् ।
नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ॥

अभयं परशुं दर्वीं खड्गं पाशुपतं हलम् ।
भिन्दिं शूलं च मुसलं कर्त्रीं शक्तिं त्रिशीर्षकम् ॥

संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह ।
रक्ताम्भोधौ स्थितां वन्दे देवीं संहारकारिणीम् ॥

इति श्रीताराध्यानम् ॥