श्रीतारातकारादिसहस्रनामस्तोत्रम्
श्रीतारातकारादिसहस्रनामस्तोत्रम्
अथ श्रीतारातकारादिसहस्रनामस्तोत्रम् ।
वसिष्ठ उवाच -
नाम्नां सहस्रन्ताराया मुखाम्भोजाद्विनिर्गतम् ।
मन्त्रसिद्धिकरम्प्रोक्तन्तन्मे वद पितामह ॥ १॥
ब्रह्मोवाच -
शृणु वत्स प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् ।
यस्योपदेशमात्रेण तव सिद्धिर्भविष्यति ॥ २॥
महाप्रलयकालादौ नष्टे स्थावरजङ्गमे ।
महाकारं समाकर्ण्य कृपया संहृतन्तनौ ॥ ३॥
नाम्ना तेन महातारा ख्याता सा ब्रह्मरूपिणी ।
महाशूलत्रयङ्कृत्वा तत्र चैकाकिनी स्थिता ॥ ४॥
पुनः सृष्टेश्चिकीर्षाभूद्दिव्यसाम्राज्यसञ्ज्ञकम् ।
नाम्नां सहस्रमस्यास्तु तकाराद्यं मया स्मृतम् ॥ ५॥
तत्प्रभावेण ब्रह्माण्डन्निर्मितं सुदृढं महत् ।
आविर्भूता वयन्तत्र यन्त्रैस्तस्याः पुरा द्विज ॥ ६॥
स्वस्य कार्यार्थिनस्तत्र भ्रान्ता भूम्यायथा वयम् ।
तयोपदिष्टाः कृपया भवामस्सृष्टिकारकाः ॥ ७॥
तस्याः प्रसादाद्विप्रेन्द्र त्रयो ब्रह्माण्डनायकाः ।
अन्ये सुरगणास्सर्वे तस्याः पादप्रसेवकाः ॥ ८॥
पठनाद्धारणात्सृष्टेः कर्ताहम्पालको हरिः ।
तत्त्वाक्षरोपदेशेन संहर्ता शङ्करस्स्वयम् ॥ ९॥
ऋषिच्छन्दादिकध्यानं मूलवत्परिकीर्तितम् ।
नियोगोमात्रसिद्धौ च पुरुषार्थचतुष्टये ॥ १०॥
तारा तारादिपञ्चार्णा तारान्यावेदवीर्यजा ।
तारातारहितावर्णा ताराद्या ताररूपिणी ॥ ११॥
तारारात्रिसमुत्पन्ना तारारात्रिवरोद्यता ।
तारारात्रिजपासक्ता तारारात्रिस्वरूपिणी ॥ १२॥
ताराराज्ञीस्वसन्तुष्टा ताराराज्ञीवरप्रदा ।
ताराराज्ञीस्वरूपा च ताराराज्ञीप्रसिद्धिदा ॥ १३॥
ताराहृत्पङ्कजागारा ताराहृत्पङ्कजापरा ।
ताराहृत्पङ्कजाधारा ताराहृत्पङ्कजा तथा ॥ १४॥
तारेश्वरी च ताराभा तारागणस्वरूपिणी ।
तारागणसमाकीर्णा तारागणनिषेविता ॥ १५॥
तारा तारान्विता तारा रत्नान्वितविभूषणा ।
तारागणरणासन्ना ताराकृत्यप्रपूजिता ॥ १६॥
तारागणकृताहारा तारागणकृताश्रया ।
तारागणकृतागारा तारागणनतत्परा ॥ १७॥
तारागुणगणाकीर्णा तारागुणगणप्रदा ।
तारागुणगणासक्ता तारागुणगणालया ॥ १८॥
तारेश्वरी तारपूज्या ताराजप्या तु तारणा ।
तारमुख्या तु ताराख्या तारदक्षा तु तारिणी ॥ १९॥
तारागम्या तु तारस्था तारामृततरङ्गिणी ।
तारभव्या तु तारार्णा तारहव्या तु तारिणी ॥ २०॥
तारका तारकान्तस्स्था तारकाराशिभूषणा ।
तारकाहारशोभाढ्या तारकावेष्टिताङ्गणा ॥ २१॥
तारकाहंसकाकीर्णा तारकाकृतभूषणा ।
तारकाङ्गदशोभाङ्गी तारकाश्रितकङ्कणा ॥ २२॥
तारकाञ्चितकाञ्ची च तारकान्वितभक्षणा ।
तारकाचित्रवसना तारकासनमण्डला ॥ २३॥
तारकाकीर्णमुकुटा तारकाश्रितकुण्डला ।
तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वला ॥ २४॥
तारकाश्रितपादाब्जा तारकावरदायिका ।
तारकादत्तहृदया तारकाञ्चितसायका ॥ २५॥
तारकान्यासकुशला तारकान्यासविग्रहा ।
तारकान्याससन्तुष्टा तारकान्याससिद्धिदा ॥ २६॥
तारकान्यासनिलया तारकान्यासपूजिता ।
तारकान्याससंहृष्टा तारकान्याससिद्धिदा ॥ २७॥
तारकान्याससंमग्ना तारकान्यासवासिनी ।
तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिनी ॥ २८॥
तारकोपासकप्राणा तारकोपासकप्रिया ।
तारकोपासकासाध्या तारकोपासकेष्टदा ॥ २९॥
तारकोपासकासक्ता तारकोपासकार्थिनी ।
तारकोपासकाराध्या तारकोपासकाश्रया ॥ ३०॥
तारकासुरसन्तुष्टा तारकासुरपूजिता ।
तारकासुरनिर्माणकर्त्री तारकवन्दिता ॥ ३१॥
तारकासुरसम्मान्या तारकासुरमानदा ।
तारकासुरसंसिद्धा तारकासुरदेवता ॥ ३२॥
तारकासुरदेहस्था तारकासुरस्वर्गदा ।
तारकासुरसंसृष्टा तारकासुरगर्वदा ॥ ३३॥
तारकासुरसंहन्त्री तारकासुरमर्दिनी ।
तारकासुरसङ्ग्रामनर्तकी तारकापहा ॥ ३४॥
तारकासुरसङ्ग्रामकारिणी तारकारिभृत् ।
तारकासुरसङ्ग्रामकबन्धवृन्दवन्दिता ॥ ३५॥
तारकारिप्रसूतारिकारिमाता तु कारिका ।
तारकारीमनोहारीवस्त्रभूषानुशासिका ॥ ३६॥
तारकारीविधात्री च तारकारिनिषेविता ।
तारकारीवचस्तुष्टा तारकारीसुशिक्षिता ॥ ३७॥
तारकारीसुसन्तुष्टा तारकारिविभूषिता ।
तारकारिकृतोत्सङ्गी तारकारिप्रहर्षदा ॥ ३८॥
तमः सम्पूर्णसर्वाङ्गी तमोलिप्तकलेबरा ।
तमोव्याप्तस्थलासङ्गा तमः पटलसन्निभा ॥ ३९॥
तमोहन्त्री तमः कर्त्री तमःसञ्चारकारिणी ।
तमोगात्री तमोदात्री तमः पात्री तमोपहा ॥ ४०॥
तमोराशिपूर्णराशिस्तमोराशिविनाशिनी ।
तमोराशिकृतध्वंसी तमोराशिभयङ्करी ॥ ४१॥
तमोगुणप्रसन्नास्या तमोगुणसुसिद्धिदा ।
तमोगुणोक्तमार्गस्था तमोगुणविराजिता ॥ ४२॥
तमोगुणस्तुतिपरा तमोगुणविवर्धिनी ।
तमोगुणाश्रितपरा तमोगुणविनाशिनी ॥ ४३॥
तमोगुणाक्षयकरी तमोगुणकलेवरा ।
तमोगुणध्वंसतुष्टा तमः पारेप्रतिष्ठिता ॥ ४४॥
तमोभवभवप्रीता तमोभवभवप्रिया ।
तमोभवभवाश्रद्धा तमोभवभवाश्रया ॥ ४५॥
तमोभवभवप्राणा तमोभवभवार्चिता ।
तमोभवभवप्रीत्यालीढकुम्भस्थलस्थिता ॥ ४६॥
तपस्विवृन्दसन्तुष्टा तपस्विवृन्दपुष्टिदा ।
तपस्विवृन्दसंस्तुत्या तपस्विवृन्दवन्दिता ॥ ४७॥
तपस्विवृन्दसम्पन्ना तपस्विवृन्दहर्षदा ।
तपस्विवृन्दसम्पूज्या तपस्विवृन्दभूषिता ॥ ४८॥
तपस्विचित्ततल्पस्था तपस्विचित्तमध्यगा ।
तपस्विचित्तचित्तार्हा तपस्विचित्तहारिणी ॥ ४९॥
तपस्विकल्पवल्ल्याभा तपस्विकल्पपादपी ।
तपस्विकामधेनुश्च तपस्विकामपूर्तिदा ॥ ५०॥
तपस्वित्राणनिरता तपस्विगृहसंस्थिता ।
तपस्विगृहराजश्रीस्तपस्विराज्यदायिका ॥ ५१॥
तपस्विमानसाराध्या तपस्विमानदायिका ।
तपस्वितापसंहर्त्री तपस्वितापशान्तिकृत् ॥ ५२॥
तपस्विसिद्धिविद्या च तपस्विमन्त्रसिद्धिकृत् ।
तपस्विमन्त्रतन्त्रेशी तपस्विमन्त्ररूपिणी ॥ ५३॥
तपस्विमन्त्रनिपुणा तपस्विकर्मकारिणी ।
तपस्विकर्मसम्भूता तपस्विकर्मसाक्षिणी ॥ ५४॥
तपस्सेव्या तपोभव्या तपोभाव्या तपस्विनी ।
तपोवश्या तपोगम्या तपोगेहनिवासिनी ॥ ५५॥
तपोधन्या तपोमान्या तपः कन्या तपोवृता ।
तपस्तथ्या तपोगोप्या तपोजप्या तपोनृता ॥ ५६॥
तपस्साध्या तपोराध्या तपोवन्द्या तपोमयी ।
तपस्सन्ध्या तपोवन्ध्या तपस्सान्निध्यकारिणी ॥ ५७॥
तपोध्येया तपोगेया तपस्तप्ता तपोबला ।
तपोलेया तपोदेया तपस्तत्त्वफलप्रदा ॥ ५८॥
तपोविघ्नवरघ्नी च तपोविघ्नविनाशिनी ।
तपोविघ्नचयध्वंसी तपोविघ्नभयङ्करी ॥ ५९॥
तपोभूमिवरप्राणा तपोभूमिपतिस्तुता ।
तपोभूमिपतिध्येया तपोभूमिपतीष्टदा ॥ ६०॥
तपोवनकुरङ्गस्था तपोवनविनाशिनी ।
तपोवनगतिप्रीता तपोवनविहारिणी ॥ ६१॥
तपोवनफलासक्ता तपोवनफलप्रदा ।
तपोवनसुसाध्या च तपोवनसुसिद्धिदा ॥ ६२॥
तपोवनसुसेव्या च तपोवननिवासिनी ।
तपोधनसुसंसेव्या तपोधनसुसाधिता ॥ ६३॥
तपोधनसुसँलीना तपोधनमनोमयी ।
तपोधननमस्कारा तपोधनविमुक्तिदा ॥ ६४॥
तपोधनधनासाध्या तपोधनधनात्मिका ।
तपोधनधनाराध्या तपोधनफलप्रदा ॥ ६५॥
तपोधनधनाढ्या च तपोधनधनेश्वरी ।
तपोधनधनप्रीता तपोधनधनालया ॥ ६६॥
तपोधनजनाकीर्णा तपोधनजनाश्रया ।
तपोधनजनाराध्या तपोधनजनप्रसूः ॥ ६७॥
तपोधनजनप्राणा तपोधनजनेष्टदा ।
तपोधनजनासाध्या तपोधनजनेश्वरी ॥ ६८॥
तरुणासृक्प्रपानार्ता तरुणासृक्प्रतर्पिता ।
तरुणासृक्समुद्रस्था तरुणासृक्प्रहर्षदा ॥ ६९॥
तरुणासृक्सुसन्तुष्टा तरुणासृग्विलेपिता ।
तरुणासृङ्नदीप्राणा तरुणासृग्विभूषणा ॥ ७०॥
तरुणैणबलिप्रीता तरुणैणबलिप्रिया ।
तरुणैणवलिप्राणा तरुणैणबलीष्टदा ॥ ७१॥
तरुणाजबलिप्रीता तरुणाजबलिप्रिया ।
तरुणाजबलिघ्राणा तरुणाजबलिप्रभुक् ॥ ७२॥
तरुणादित्यसङ्काशा तरुणादित्यविग्रहा ।
तरुणादित्यरुचिरा तरुणादित्यनिर्मला ॥ ७३॥
तरुणादित्यनिलया तरुणादित्यमण्डला ।
तरुणादित्यललिता तरुणादित्यकुण्डला ॥ ७४॥
तरुणार्कसमज्योत्स्ना तरुणार्कसमप्रभा ।
तरुणार्कप्रतीकारा तरुणार्कप्रवर्धिता ॥ ७५॥
तरुणा तरुणानेत्रा च तरुणा तरुणलोचना ।
तरुणा तरुणनेत्रा च तरुणा तरुणभूषणा ॥ ७६॥
तरुणीदत्तसङ्केता तरुणीदत्तभूषणा ।
तरुणीगणसन्तुष्टा तरुणीतरुणीमणिः ॥ ७७॥
तरुणीमणिसंसेव्या तरुणीमणिवन्दिता ।
तरुणीमणिसन्तुष्टा तरुणीमणिपूजिता ॥ ७८॥
तरुणीवृन्दसँवाद्या तरुणीवृन्दवन्दिता ।
तरुणीवृन्दसंस्तुत्या तरुणीवृन्दमानदा ॥ ७९॥
तरुणीवृन्दमध्यस्था तरुणीवृन्दवेष्टिता ।
तरुणीवृन्दसम्प्रीता तरुणीवृन्दभूषिता ॥ ८०॥
तरुणीजपसंसिद्धा तरुणीजपमोक्षदा ।
तरुणीपूजकासक्ता तरुणीपूजकार्थिनी ॥ ८१॥
तरुणीपूजकश्रीदा तरुणीपूजकार्त्तिहा ।
तरुणीपूजकप्राणा तरुणीनिन्दकार्त्तिदा ॥ ८२॥
तरुणीकोटिनिलया तरुणीकोटिविग्रहा ।
तरुणीकोटिमध्यस्था तरुणीकोटिवेष्टिता ॥ ८३॥
तरुणीकोटिदुस्साध्या तरुणीकोटिविग्रहा ।
तरुणीकोटिरुचिरा तरुणीतरुणीश्वरी ॥ ८४॥
तरुणीमणिहाराढ्या तरुणीमणिकुण्डला ।
तरुणीमणिसन्तुष्टा तरुणीमणिमण्डिता ॥ ८५॥
तरुणीसरणीप्रीता तरुणीसरणीरता ।
तरुणीसरणीस्थाना तरुणीसरणीरता ॥ ८६॥
तरणीमण्डलश्रीदा तरणीमण्डलेश्वरी ।
तरणीमण्डलश्रद्धा तरणीमण्डलस्थिता ॥ ८७॥
तरणीमण्डलार्घाढ्या तरणीमण्डलार्चिता ।
तरणीमण्डलध्येया तरणीभवसागरा ॥ ८८॥
तरणीकारणासक्ता तरणीतक्षकार्चिता ।
तरणीतक्षकश्रीदा तरणीतक्षकार्थिनी ॥ ८९॥
तरणीतरणशीला च तरीतरणतारिणी ।
तरीतरणसंवेद्या तरीतरणकारिणी ॥ ९०॥
तरुरूपा तरूपस्था तरुस्तरुलतामयी ।
तरुरूपा तरुस्था च तरुमध्यनिवासिनी ॥ ९१॥
तप्तकाञ्चनगेहस्था तप्तकाञ्चनभूमिका ।
तप्तकाञ्चनप्राकारा तप्तकाञ्चनपादुका ॥ ९२॥
तप्तकाञ्चनदीप्ताङ्गी तप्तकाञ्चनसन्निभा ।
तप्तकाञ्चनगौराङ्गी तप्तकाञ्चनमञ्चगा ॥ ९३॥
तप्तकाञ्चनवस्त्राढ्या तप्तकाञ्चनरूपिणी ।
तप्तकाञ्चनमध्यस्था तप्तकाञ्चनकारिणी ॥ ९४॥
तप्तकाञ्चनमासार्च्च्या तप्तकाञ्चनपात्रभुक् ।
तप्तकाञ्चनशैलस्था तप्तकाञ्चनकुण्डला ॥ ९५॥
तप्तकाञ्चनक्षत्त्राढ्या तप्तकाञ्चनदण्डधृक् ।
तप्तकाञ्चनभूषाढ्या तप्तकाञ्चनदानदा ॥ ९६॥
तप्तकाञ्चनदेशेशी तप्तकाञ्चनचापधृक् ।
तप्तकाञ्चनतूणाढ्या तप्तकाञ्चनबाणभृत् ॥ ९७॥
तलातलविधात्री च तलातलविधायिनी ।
तलातलस्वरूपेशी तलातलविहारिणी ॥ ९८॥
तलातलजनासाध्या तलातलजनेश्वरी ।
तलातलजनाराध्या तलातलजनार्थदा ॥ ९९॥
तलातलजयाभाक्षी तलातलजचञ्चला ।
तलातलजरत्नाढ्या तलातलजदेवता ॥ १००॥
तटिनीस्थानरसिका तटिनी तटवासिनी ।
तटिनी तटिनीतीरगामिनी तटिनीप्रिया ॥ १०१॥
तटिनीप्लवनप्रीता तटिनीप्लवनोद्यता ।
तटिनीप्लवनश्लाघ्या तटिनीप्लवनार्थदा ॥ १०२॥
तटलास्था तटस्थाना तटेशी तटवासिनी ।
तटपूज्या तटाराध्या तटरोममुखार्थिनी ॥ १०३॥
तटजा तटरूपा च तटस्था तटचञ्चला ।
तटसन्निधिगेहस्थासहिता तटशायिनी ॥ १०४॥
तरङ्गिणी तरङ्गाभा तरङ्गायतलोचना ।
तरङ्गसमदुर्द्धर्षा तरङ्गसमचञ्चला ॥ १०५॥
तरङ्गसमदीर्घाङ्गी तरङ्गसमवर्धिता ।
तरङ्गसमसँवृद्धिस्तरङ्गसमनिर्मला ॥ १०६॥
तडागमध्यनिलया तडागमध्यासम्भवा ।
गडागरचनश्लाघ्या तडागरचनोद्यता ॥ १०७॥
तडागकुसुदामोदी तडागेशी तडागिनी ।
तडागनीरसंस्नाता तडागनीरनिर्मला ॥ १०८॥
तडागकमलागारा तडागकमलालया ।
तडागकमलान्तस्स्था तडागकमलोद्यता ॥ १०९॥
तडागकमलाङ्गी च तडागकमलानना ।
तडागकमलप्राणा तडागकमलेक्षणा ॥ ११०॥
तडागरक्तपद्मस्था तडागश्वेतपद्मगा ।
तडागनीलपद्माभा तडागनीलपद्मभृत् ॥ १११॥
तनुस्तनुगता तन्वी तन्वङ्गी तनुधारिणी ।
तनुरूपा तनुगता तनुधृक् तनुरूपिणी ॥ ११२॥
तनुस्था तनुमध्याङ्गी तनुकृत्तनुमङ्गला ।
तनुसेव्या तु तनुजा तनुजातनुसम्भवा ॥ ११३॥
तनुभृत्तनुसम्भूता तनुदातनुकारिणी ।
तनुभृत्तनुसंहन्त्री तनुसञ्चारकारिणी ॥ ११४॥
तथ्यवाक् तथ्यवचना तथ्यकृत् तथ्यवादिनी ।
तथ्यभृत्तथ्यचरिता तथ्यधर्मानुवर्त्तिनी ॥ ११५॥
तथ्यभुक् तथ्यगमना तथ्यभक्तिवरप्रदा ।
तथ्यनीचेश्वरी तथ्यचित्ताचाराशुसिद्धिदा ॥ ११६॥
तर्क्यातर्क्यस्वभावा च तर्कदाया तु तर्ककृत् ।
तर्काध्यापनमध्यस्था तर्काध्यापनकारिणी ॥ ११७॥
तर्काध्यापनसन्तुष्टा तर्काध्यापनरूपिणी ।
तर्काध्यापनसंशीला तर्कार्थप्रतिपादिता ॥ ११८॥
तर्काध्यापनसन्तृप्ता तर्कार्थप्रतिपादिका ।
तर्कवादाश्रितपदा तर्कवादविवर्धिनी ॥ ११९॥
तर्कवादैकनिपुणा तर्कवादप्रचारिणी ।
तमालदलश्यामाङ्गी तमालदलमालिनी ॥ १२०॥
तमालवनसङ्केता तमालपुष्पपूजिता ।
तगरी तगराराध्या तगरार्चितपादुका ॥ १२१॥
तगरस्रक्सुसन्तुष्टा तगरस्रग्विराजिता ।
तगराहुतिसन्तुष्टा तगराहुतिकीर्तिदा ॥ १२२॥
तगराहुतिसंसिद्धा तगराहुतिमानदा ।
तडित्तडिल्लताकारा तडिच्चञ्चललोचना ॥ १२३॥
तडिल्लता तडित्तन्वी तडिद्दीप्ता तडित्प्रभा ।
तद्रूपा तत्स्वरूपेशी तन्मयी तत्त्वरूपिणी ॥ १२४॥
तत्स्थानदाननिरता तत्कर्मफलदायिनी ।
तत्त्वकृत् तत्त्वदा तत्त्वा तत्त्ववित् तत्त्वतर्पिता ॥ १२५॥
तत्त्वार्च्च्या तत्त्वपूजा च तत्त्वार्घ्या तत्त्वरूपिणी ।
तत्त्वज्ञानप्रदानेशी तत्त्वज्ञानसुमोक्षदा ॥ १२६॥
त्वरिता त्वरितप्रीता त्वरितार्त्तिविनाशिनी ।
त्वरितासवसन्तुष्टा त्वरितासवतर्पिता ॥ १२७॥
त्वग्वस्त्रा त्वक्परीधाना तरला तरलेक्षणा ।
तरक्षुचर्मवसना तरक्षुत्वग्विभूषणा ॥ १२८॥
तरक्षुस्तरक्षुप्राणा तरक्षुपृष्ठगामिनी ।
तरक्षुपृष्ठसंस्थाना तरक्षुपृष्ठवासिनी ॥ १२९॥
तर्पितोदैस्तर्पणाशा तर्पणासक्तमानसा ।
तर्पणानन्दहृदया तर्पणाधिपतिस्ततिः ॥ १३०॥
त्रयीमयी त्रयीसेव्या त्रयीपूज्या त्रयीकथा ।
त्रयीभव्या त्रयीभाव्या त्रयीभाव्या त्रयीयुता ॥ १३१॥
त्र्यक्षरी त्र्यक्षरेशानी त्र्यक्षरीशीघ्रसिद्धिदा ।
त्र्यक्षरेशी त्र्यक्षरीस्था त्र्यक्षरीपुरुषापदा ॥ १३२॥
तपना तपनेष्टा च तपस्तपनकन्यका ।
तपनांशुसमासह्या तपनकोटिकान्तिकृत् ॥ १३३॥
तपनीया तल्पतल्पगता तल्पविधायिनी ।
तल्पकृत्तल्पगा तल्पदात्री तल्पतलाश्रया ॥ १३४॥
तपनीयतलारात्री तपनीयांशुप्रार्थिनी ।
तपनीयप्रदातप्ता तपनीयाद्रिसंस्थिता ॥ १३५॥
तल्पेशी तल्पदा तल्पसंस्थिता तल्पवल्लभा ।
तल्पप्रिया तल्परता तल्पनिर्माणकारिणी ॥ १३६॥
तरसापूजनासक्ता तरसावरदायिनी ।
तरसासिद्धिसन्धात्री तरसामोक्षदायिनी ॥ १३७॥
तापसी तापसाराध्या तापसार्त्तिविनाशनी ।
तापसार्त्ता तापसश्रीस्तापसप्रियवादिनी ॥ १३८॥
तापसानन्दहृदया तापसानन्ददायिनी ।
तापसाश्रितपादाब्जा तापसक्तमानसा ॥ १३९॥
तामसी तामसीपूज्या तामसीप्रणयोत्सुका ।
तामसी तामसीसीता तामसीशीघ्रसिद्धिदा ॥ १४०॥
तालेशी तालभुक्तालदात्री तालोपमस्तनी ।
तालवृक्षस्थिता तालवृक्षजा तालरूपिणी ॥ १४१॥
तार्क्ष्या तार्क्ष्यसमारूढा तार्क्ष्येशी तार्क्ष्यपूजिता ।
तार्क्ष्येश्वरी तार्क्ष्यमाता तार्क्ष्येशीवरदायिनी ॥ १४२॥
तापी तु तपिनी तापसंहन्त्री तापनाशिनी ।
तापदात्री तापकर्त्री तापविध्वंसकारिणी ॥ १४३॥
त्रासकर्त्री त्रासदात्री त्रासहर्त्री च त्रासहा ।
त्रासिता त्रासरहिता त्रासनिर्मूलकारिणी ॥ १४४॥
त्राणकृत्त्राणसंशीला तानेशी तानदायिनी ।
तानगानरता तानकारिणी तानगायिनी ॥ १४५॥
तारुण्यामृतसम्पूर्णा तारुण्यामृतवारिधिः ।
तारुण्यामृतसन्तुष्टा तारुण्यामृततर्पिता ॥ १४६॥
तारुण्यामृतपूर्णाङ्गी तारुण्यामृतविग्रहा ।
तारुण्यगुणसम्पन्ना तारुण्योक्तिविशारदा ॥ १४७॥
ताम्बूली ताम्बुलेशानी ताम्बूलचर्वणोद्यता ।
ताम्बूलपूरितास्या च ताम्बूलारुणिताधरा ॥ १४८॥
ताटङ्करत्नविख्यातिस्ताटङ्करत्नभूषिणी ।
ताटङ्करत्नमध्यस्था ताटङ्कद्वयभूषिता ॥ १४९॥
तिथीशा तिथिसम्पूज्या तिथिस्था तिथिरूपिणी ।
त्रितिथिवासिनीसेव्या तिथीशवरदायिनी ॥ १५०॥
तिलोत्तमादिकाराध्या तिलोत्तमादिकप्रभा ।
तिलोत्तमा तिलप्रक्षा तिलाराध्या तिलार्च्चिता ॥ १५१॥
प्। १४४) तिलभुक् तिलसन्दात्री तिलतुष्टा तिलालया ।
तलदा तिलसङ्काशा तिलतैलविधायिनी ॥ १५२॥
तिलतैलोपलिप्ताङ्गी तिलतैलसुगन्धिनी ।
तिलाज्यहोमसन्तुष्टा तिलाज्यहोमसिद्धिदा ॥ १५३॥
तिलपुष्पाञ्जलिप्रीता तिलपुष्पाञ्जलिप्रिया ।
तिलपुष्पाञ्जलिश्रेष्ठा तिलपुष्पाभनाशिनी ॥ १५४॥
तिलकाश्रितसिन्दूरा तिलकाङ्कितचन्दना ।
तिलकाहृतकस्तूरी तिलकामोदमोहिनी ॥ १५५॥
त्रिगुणा रिगुणाकारा त्रिगुणान्वितविग्रहा ।
त्रिगुणाकारविख्याता त्रिमूर्त्तिस्त्रिगुणात्मिका ॥ १५६॥
त्रिशिरा त्रिपुरेशानी त्रिपुरा त्रिपुरेश्वरी ।
त्रिपुरेशी त्रिलोकस्था त्रिपुरी त्रिपुराम्बिका ॥ १५७॥
त्रिपुरारिसमाराध्या त्रिपुरारिवरप्रदा ।
त्रिपुरारिशिरोभूषा त्रिपुरारिवरप्रदा ॥ १५८॥
त्रिपुरारीष्टसन्दात्री त्रिपुरारीष्टदेवता ।
त्रिपुरारिकृतार्धाङ्गी त्रिपुरारिविलासिनी ॥ १५९॥
त्रिपुरासुरसंहन्त्री त्रिपुरासुरमर्दिनी ।
त्रिपुरासुरसंसेव्या त्रिपुरासुरवर्यया ॥ १६०॥
त्रिकुटा त्रिकुटाराध्या त्रिकूटार्च्चितविग्रहा ।
त्रिकूटाचलमध्यथा त्रिकूटाचलवासिनी ॥ १६१॥
त्रिकूटाचलसञ्जाता त्रिकूटाचलनिर्गता ।
त्रिजटा त्रिजटेशानी त्रिजटावरदायिनी ॥ १६२॥
त्रिनेत्रेशी त्रिनेत्रा च त्रिनेत्रवरवर्णिनी ।
त्रिवली त्रिवलीयुक्ता त्रिशूलवरधारिणी ॥ १६३॥
त्रिशूलेशी त्रिशूलीशी त्रिशूलभृत् त्रिशूलिनी ।
त्रिमनुस्त्रिमनूपास्या त्रिमनूपासकेश्वरी ॥ १६४॥
त्रिमनुजपसन्तुष्टा त्रिमनुस्तूर्णसिद्धिदा ।
त्रिमनुपूजनप्रीता त्रिमनुध्यानमोक्षदा ॥ १६५॥
त्रिविधा त्रिविधाभक्तिस्त्रिमता त्रिमतेश्वरी ।
त्रिभावस्था त्रिभावेशी त्रिभावपरिपूरिता ॥ १६६॥
त्रितत्त्वात्मा त्रितत्त्वेशी त्रितत्त्वज्ञा त्रितत्त्वधृक् ।
त्रितत्त्वाचमनप्रीता त्रितत्त्वाचमनेष्टदा ॥ १६७॥
त्रिकोणस्था त्रिकोणेशी त्रिकोणचक्रवासिनी ।
त्रिकोणचक्रमध्यस्था त्रिकोणबिन्दुरूपिणी ॥ १६८॥
त्रिकोणयन्त्रसंस्थाना त्रिकोणयन्त्ररूपिणी ।
त्रिकोणयन्त्रसम्पूज्या त्रिकोणयन्त्रसिद्धिदा ॥ १६९॥
त्रिवर्णाढ्या त्रिवर्णेशी त्रिवर्णोपासिरूपिणी ।
त्रिवर्णस्था त्रिवर्णाढ्या त्रिवर्णवरदायिनी ॥ १७०॥
त्रिवर्णाद्या त्रिवर्णार्च्च्या त्रिवर्गफलदायिनी ।
त्रिवर्गाढ्या त्रिवर्गेशी त्रिवर्गाद्यफलप्रदा ॥ १७१॥
त्रिसन्ध्यार्च्च्या त्रिसन्ध्येशी त्रिसन्ध्याराधनेष्टदा ।
त्रिसन्ध्यार्च्चनसन्तुष्टा त्रिसन्ध्याजपमोक्षदा ॥ १७२॥
त्रिपदाराधितपदा त्रिपदा त्रिपदेश्वरी ।
त्रिपदाप्रतिपाद्येशी त्रिपदा प्रतिपादिका ॥ १७३॥
त्रिशक्तिश्च त्रिशक्तेशी त्रिशक्तेष्टफलप्रदा ।
त्रिशक्तेष्टा त्रिशक्तीष्टा त्रिशक्तिपरिवेष्टिता ॥ १७४॥
त्रिवेणी च त्रिवेणीस्त्री त्रिवेणीमाधवार्च्चिता ।
त्रिवेणीजलसन्तुष्टा त्रिवेणीस्नानपुण्यदा ॥ १७५॥
त्रिवेणीजलसंस्नाता त्रिवेणीजलरूपिणी ।
त्रिवेणीजलपूताङ्गी त्रिवेणीजलपूजिता ॥ १७६॥
त्रिनाडीस्था त्रिनाडीशी त्रिनाडीमध्यगामिनी ।
त्रिनाडीसन्ध्यसञ्छ्रेया त्रिनाडी च त्रिकोटिनी ॥ १७७॥
त्रिपञ्चाशत्त्रिरेखा च त्रिशक्तिपथगामिनी ।
त्रिपथस्था त्रिलोकेशी त्रिकोटिकुलमोक्षदा ॥ १७८॥
त्रिरामेशी त्रिरामार्च्च्या त्रिरामवरदायिनी ।
त्रिदशाश्रितपादाब्जा त्रिदशालयचञ्चला ॥ १७९॥
त्रिदशा त्रिदशप्रार्थ्या त्रिदशाशुवरप्रदा ।
त्रिदशैश्वर्यसम्पन्ना त्रिदशेश्वरसेविता ॥ १८०॥
त्रियामार्च्च्या त्रियामेशी त्रियामानन्तसिद्धिदा ।
त्रियामेशाधिकज्योत्स्ना त्रियामेशाधिकानना ॥ १८१॥
त्रियामानाथवत्सौम्या त्रियामानाथभूषणा ।
त्रियामानाथलावण्या-रत्नकोटियुतानना ॥ १८२॥
त्रिकालस्था त्रिकालज्ञा त्रिकालज्ञत्वकारिणी ।
त्रिकालेशी त्रिकालार्च्च्या त्रिकालज्ञत्वदायिनी ॥ १८३॥
तीरभुक् तीरगा तीरसरिता तीरवासिनी ।
तीरभुग्देशसञ्जाता तीरभुग्देशसंस्थिता ॥ १८४॥
तिग्मातिग्मांशुसङ्काशा तिग्मांशुक्रोडसंस्थिता ।
तिग्मांशुकोटिदीप्ताङ्गी तिग्मांशुकोटिविग्रहा ॥ १८५॥
तीक्ष्णा तीक्ष्णतरा तीक्ष्णमहिषासुरमर्दिनी ।
तीक्ष्णकर्त्रिलसत्पाणिस्तीक्ष्णासिवरधारिणी ॥ १८६॥
तीव्रा तीव्रगतिस्तीव्रासुरसङ्घविनाशिनी ।
तीव्राष्टनागाभरणा तीव्रमुण्डविभूषणा ॥ १८७॥
तीर्थात्मिका तीर्थमयी तीर्थेशी तीर्थपूजिता ।
तीर्थराजेश्वरी तीर्थफलदा तीर्थदानदा ॥ १८८॥
तुमुली तुमुलप्राज्ञी तुमुलासुरघातिनी ।
तुमुलक्षतजप्रीता तुमुलाङ्गणवर्त्तकी ॥ १८९॥
तुरगी तुरगारूढा तुरङ्गपृष्ठगामिनी ।
तुरङ्गगमनाह्लादा तुरङ्गवेगगामिनी ॥ १९०॥
तुरीया तुलना तुल्या तुल्यवृत्तिस्तु तुल्यकृत् ।
तुलनेशी तुलाराशिस्तुलाराशी त्वसूक्ष्मवित् ॥ १९१॥
तुम्बिका तुम्बिकापात्रभोजना तुम्बिकार्थिनी ।
तुलसी तुलसीवर्या तुलजा तुलजेश्वरी ॥ १९२॥
तुषाग्निव्रतसन्तुष्टा तुषाग्निस्तुषराशिकृत् ।
तुषारकरशीताङ्गी तुषारकरपूर्त्तिकृत् ॥ १९३॥
तुषाराद्रिस्तुषाराद्रिसुता तुहिनदीधितिः ।
तुहिनाचलकन्या च तुहिनाचलवासिनी ॥ १९४॥
तूर्यवर्गेश्वरी तूर्यवर्गदा तूर्यवेददा ।
तूर्यवर्यात्मिका तूर्यतूर्येश्वरस्वरूपिणी ॥ १९५॥
तुष्टिदा तुष्टिकृत् तुष्टिस्तूणीरद्वयपृष्ठधृक् ।
तुम्बुराज्ञानसन्तुष्टा तुष्टसंसिद्धिदायिनी ॥ १९६॥
तूर्णराज्यप्रदा तूर्णगद्गदा तूर्णपद्यदा ।
तूर्णपाण्डित्यसन्दात्री तूर्णापूर्णबलप्रदा ॥ १९७॥
तृतीया च तृतीयेशी तृतीयातिथिपूजिता ।
तृतीयाचन्द्रचूडेशी तृतीयाचन्द्रभूषणा ॥ १९८॥
तृप्तिस्तृप्तिकरी तृप्ता तृष्णा तृष्णाविवर्धिनी ।
तृष्णापूर्णकरी तृष्णानाशिनी तृषिता तृषा ॥ १९९॥
त्रेतासंसाधिता त्रेता त्रेतायुगफलप्रदा ।
त्रैलोक्यपूजा त्रैलोक्यदात्री त्रैलोक्यसिद्धिदा ॥ २००॥
त्रैलोक्येश्वरतादात्री त्रैलोक्यपरमेश्वरी ।
त्रैलोक्यमोहनेशानी त्रैलोक्यराज्यदायिनी ॥ २०१॥
तैत्रिशाखेश्वरी त्रैत्रीशाखा तैत्रविवेकदा ।
तोरणान्वितगेहस्था तोरणासक्तमानसा ॥ २०२॥
तोलकास्वर्णसन्दात्री तौलकास्वर्णकङ्कणा ।
तोमरायुधरूपा च तोमरायुधधारिणी ॥ २०३॥
तौर्यत्रिकेश्वरी तौर्यन्त्रिकी तौर्यन्त्रिकोत्सुकी ।
तन्त्रकृत्तन्त्रवत्सूक्ष्मा तन्त्रमन्त्रस्वरूपिणी ॥ २०४॥
तन्त्रकृत्तन्त्रसम्पूज्या तन्त्रेशी तन्त्रसम्मता ।
तन्त्रज्ञा तन्त्रवित्तन्त्रसाध्या तन्त्रस्वरूपिणी ॥ २०५॥
तन्त्रस्था तन्त्रजा तन्त्री तन्त्रभृत्तन्त्रमन्त्रदा ।
तन्त्राद्या तन्त्रगा तन्त्रा तन्त्रार्च्च्या तत्रसिद्धिदा ॥ २०६॥
इति ते कथितन्दिव्यङ्क्रतुकोटिफलप्रदम् ।
नाम्नां सहस्रन्तारायास्तकाराद्यं सुगोपितम् ॥ २०७॥
दानं यज्ञस्तपस्तीर्थव्रतञ्चानशनादिकम् ।
एकैकनामजं पुण्यं सन्ध्यातुर्गदितं मया ॥ २०८॥
गुरौ देवे तथा मन्त्रे यस्य स्यान्निश्चला मतिः ।
तस्यैव स्तोत्रपाठेऽस्मिन्सम्भवेदधिकारिता ॥ २०९॥
महाचीनक्रमाभिन्नषोढान्यस्तकलेवरः ।
क्रमदीक्षान्वितो मन्त्री पठेदेतन्न चान्यथा ॥ २१०॥
गन्धपुष्पादिभिर्द्रव्यैर्मकारैः पञ्चकैर्द्विजः ।
सम्पूज्य ताराविधिवत्पठेदेतदनन्यधीः ॥ २११॥
अष्टम्याञ्च चतुर्दश्या सङ्क्रान्तौ रविवासरे ।
शनिभौमदिने रात्रौ ग्रहणे चन्द्रसूर्ययोः ॥ २१२॥
तारारात्रौ कालरात्रौ मोहरात्रौ विशेषतः ।
पठनान्मन्त्रसिद्धिः स्यात्सर्वज्ञत्वम्प्रजायते ॥ २१३॥
श्मशाने प्रान्तरे रम्ये शून्यागारे विशेषतः ।
देवागारे गिरौ वापि स्तवपारायणञ्चरेत् ॥ २१४॥
ब्रह्महत्या सुरापानं स्तेयं स्त्रीगमनादिकम् ।
गुरुतल्पे तथा चान्यत्पातकन्नश्यति ध्रुवम् ॥ २१५॥
लतामध्यगतो मन्त्री श्रद्धया चार्च्चयेद्यदि ।
आकर्षयेत्तदा रम्भामेनामपि तथोर्वशीम् ॥ २१६॥
सङ्ग्रामसमये वीरस्तारासाम्राज्यकीर्तनात् ।
चतुरङ्गचयञ्जित्वा सर्वसाम्राज्यभाग्भवेत् ॥ २१७॥
निशार्धे पूजनान्ते च प्रतिनाम्ना प्रपूजयेत् ।
एकैककरवीराद्यैर्मन्दौर्नीलवारिजैः ॥ २१८॥
गद्यपद्यमयीवाणी भूभोज्या च प्रवर्तते ।
पाण्डित्यं सर्वशास्त्रेषु वादी त्रस्यति दर्शनात् ॥ २१९॥
वह्निजायान्तकैरेतैस्ताराद्यैः प्रतिनामभिः ।
राजन्यं सर्वराजेषु परकायप्रवेशनम् ॥ २२०॥
अन्तर्धानङ्खेचरत्वम्बहुकायप्रकाशनम् ।
गुटिका पादुका पद्मावती मधुमती तथा ॥ २२१॥
रसं रसायनाः सर्वाः सिद्धयः समुपस्थिताः ।
कर्पूरागरुकस्तूरीचन्दनैः संयुतैर्जलैः ॥ २२२॥
मूलं सम्पुटितेनैव प्रतिनाम्ना प्रपूजयेत् ।
यक्षराक्षसगन्धर्वा विद्याधरमहोरगाः ॥ २२३॥
भूतप्रेतपिशाचाद्या डाकिनीशाकिनीगणाः ।
दुष्टा भैरववेतालाः कूष्माण्डाः किन्नरीगणाः ॥ २२४॥
भयभीताः पलायन्ते तेजसा साधकस्य च ।
मन्त्रज्ञाने समुत्पन्ने प्रतिनाम्ना विचारयेत् ॥ २२५॥
मन्त्रसम्पुटितेनैव तस्य शान्तिर्भवेद्ध्रुवम् ।
ललिता वशमायाति दास्यतायान्ति पार्थिवाः ॥ २२६॥
अग्नयः शीततायान्ति जपाकस्य च भाषणात् ।
एकावर्तनमात्रेण राजभीतिनिवारणम् ॥ २२७॥
वेलावर्तनमात्रेण पशुवृद्धिः प्रजायते ।
दशावृत्या धनप्राप्तिर्विंशत्या राज्यमाप्नुयात् ॥ २२८॥
शतावृत्या गृहे तस्य चञ्चला निश्चला भवेत् ।
गङ्गाप्रवाहवद्वाणी प्रलापादपि जायते ॥ २२९॥
पुत्रपौत्रान्वितो मन्त्री चिरञ्जीवी तु देववत् ।
शतद्वयावर्तनेन देववत्पूज्यते जनैः ॥ २३०॥
शतपञ्चकमावर्त्य स भवेद्भैरवोपमः ।
सहस्रावर्तनेनैव मन्त्रस्तस्य स्वसिद्धिदः ॥ २३१॥
तस्मिन्प्रवर्तते सर्वसिद्धिः सर्वार्थसाधिनी ।
पादुकाञ्चनवेतालापातालगगनादिकम् ॥ २३२॥
विविधा यक्षिणीसिद्धिर्वाक्सिद्धिस्तस्य जायते ।
शोषणं सागराणाञ्च धाराया भ्रमणन्तथा ॥ २३३॥
नवीनसृष्टिनिर्माणं सर्वङ्कर्तुङ्क्षमो भवेत् ।
आयुतावर्तनेनैव ताराम्पश्यति चक्षुषा ॥ २३४॥
लक्षावर्तनमात्रेण तारापतिसमो भवेत् ।
न किञ्चिद्दुर्लभन्तस्य जीवन्मुक्तो हि भूतले ॥ २३५॥
कल्पान्तेन तु तत्पश्चात्तारासायुज्यमाप्नुयात् ।
यद्धि तारासमा विद्या नास्ति तारुण्यरूपिणी ॥ २३६॥
न चैतत्सदृशं स्तोत्रम्भवेद्ब्रह्माण्डमण्डले ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ २३७॥
न शक्यते फलवक्तुं मया कल्पशतैरपि ।
चुम्बके निन्दके दुष्टे पिशुने जीवहिंसके ॥ २३८॥
सङ्गोप्यं स्तोत्रमेतत्तदर्शनेनैव कुत्रचित् ।
राज्यन्देयन्धनन्देयं शिरो देयमथापि वा ॥ २३९॥
न देयं स्तोत्रवर्यन्तु मन्त्रादपि महोद्यतम् ।
अनुलोमविलोमाभ्यां मूलसम्पुटितन्त्विदम् ॥ २४०॥
लिखित्वा भूर्जपत्रादौ गन्धाष्टकपुरस्सरैः ।
धारयेद्दक्षिणे बाहौ कण्ठे वामभुजे तथा ॥ २४१॥
तस्य सर्वार्थसिद्धिस्स्याद्वह्निना नैव दह्यते ।
तद्गात्रं शस्त्रसङ्घैश्च भिद्यते न कदाचन ॥ २४२॥
स भूमिवलये पुत्र विचरेद्भैरवोपमः ।
वन्ध्यापि लभते पुत्रन्निर्धनो धनमाप्नुयात् ॥
निर्विघ्नो लभते विद्यान्तर्कव्याकरणादिकाम् ॥ २४३॥
इति निगदितमस्यास्तादिनाम्नां सहस्रं-
वरदमनुनिदानन्दिव्यसाम्राज्यसञ्ज्ञम् ।
विधिहरिगिरिशादौ शक्तिदानैकदक्षं
समविधिपठनीयङ्कालितारासमज्ञैः ॥ २४४॥
इति श्रीब्रह्मयामले तारायास्तकारादिसहस्रनामस्तोत्र सम्पूर्णम् ॥