श्रीत्रिपुरसुन्दर्यपराधक्षमापणस्तोत्रम्
श्रीत्रिपुरसुन्दर्यपराधक्षमापणस्तोत्रम्
अथ स्तोत्रं प्रवक्ष्यामि त्रिपुरार्णव ईरितम् ।
किं किं द्वन्द्वं दनुजदलिनि क्षीयते न श्रुतायां
का का सिद्धिः कुलकमलिनि प्राप्यते नार्चितायाम् ।
का का कीर्तिः सुरवरनुते व्याप्यते न स्तुतायां
कं कं भोगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १॥
सकुसं सकुसं रम्भ स्वारिता मोक्षविभ्रमे ।
चिच्चन्द्रमण्डलान्तःस्थे नमस्ते हरवल्लभे ॥ २॥
जगदुद्धारणोद्योगयोगभोगवियोगिनि ।
स्थितिभावस्थिते देवि नमः स्थाणुप्रियेऽम्बिके ॥ ३॥
भावाभावपृथग्भावानुभावे वेदकर्मणि ।
चैतन्यपञ्चके देवि नमस्तुभ्यं हराङ्गने ॥ ४॥
सृष्टिस्थित्युपसंहारप्रत्युर्जितपदद्वये ।
चिद्विश्रान्तिमहासत्तामात्रे मातर्नमोऽस्तु ते ॥ ५॥
वह्न्यर्कशीतकिरणब्रह्मचक्रान्तरोदिते ।
चतुष्पीठेश्वरि शिवे नमस्ते त्रिपुरेश्वरि ॥ ६॥
चराचरमिदं विश्वं प्रकाशयसि तेजसा ।
मातृकारूपमास्थाय तस्यै मातर्नमोऽस्तु ते ॥ ७॥
स्मृता भवभयं हंसि पूजिताऽसि शुभङ्करि ।
स्तुता त्वं वाच्छितं वस्तु ददासि करुणावरे ॥ ८॥
भक्तस्य नित्यपूजायां रतस्य मम साम्प्रतम् ।
वाग्भवादिमहासिद्धिं देहि त्रिपुरसुन्दरि ॥ ९॥
परमानन्दसन्दोहप्रमोदभरनिर्भरे ।
दुःखत्रयपरिम्लानवदनं पाहि मां शिवे ॥ १०॥
शब्दब्रह्ममयि यच्च देवि त्रिपुरसुन्दरि ।
यथाशक्ति जपं पूजां गृहाण मदनुग्रहात् ॥ ११॥
अज्ञानादल्पबुद्धित्वादालस्याद् दुष्टभावतः ।
ममापराधं कार्पण्यं क्षमस्व परदेवते ॥ १२॥
अज्ञानामसमर्थानामस्वस्थाननिवासिनाम् ।
अशुद्धं बलमस्माकं शिशूनां हरवल्लभे ॥ १३॥
कृपामयि कृपां भद्रे सकृन्मयि निवेशय ।
तावदहं कृतार्थोऽस्मि न ते किञ्चन हीयते ॥ १४॥
यन्मया क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु ।
तत् सर्वं तावकी पूजा भूयाद् भूत्यै रमे शिवे ॥ १५॥
द्रव्यहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् ।
तत् सर्वं कृपया देवि क्षमस्व परदेवते ॥ १६॥
यन्मयोक्तं महाज्ञानं तन्महत् स्वल्पमेव वा ।
तावत् सर्वं जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥ १७॥
इति श्रीत्रिपुरसुन्दरी अपराधक्षमापणस्तोत्रं सम्पूर्णम् ।
(तत्त्वचिन्तामणि एकोनविंशः प्रकाशः
त्रिपुरार्णवोक्तं त्रिपुरसुन्दरीस्तोत्रम्)