देवी स्तोत्र

श्रीकामाक्षीस्तोत्रम्

श्रीकामाक्षीस्तोत्रम्

कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे ॥ ध्रु॥

कामारिकान्ते कुमारि कालकालस्य भर्तुः करे दत्तहस्ते ।
कामाय कामप्रदात्रि कामकोटिस्थपूज्ये गिरं देहि मह्यम् ॥ १॥

श्रीचक्रमध्ये वसन्तीं भूतरक्षःपिशाचातिदुष्टान् हरन्तीम् ।
श्रीकामकोट्यां ज्वलन्तीं कामहीनैस्सुगम्यां भजे देहि वाचम् ॥ २॥

इन्द्रादिमान्ये सुधन्ये ब्रह्मविष्ण्वादिवन्द्ये गिरीन्द्रस्य कन्ये ।
मान्यां न मन्ये त्वदन्यं मानिताङ्घ्रिं मुनीन्द्रैर्भजे मातरं त्वाम् ॥ ३॥

सिंहाधिरूढे नमस्ते साधुहृत्पद्मगूढे हताशेषमूढे ।
रूढं हर त्वं गदं मे कण्ठशब्दं दृढं देहि वाग्वादिनि त्वम् ॥ ४॥

कल्याणदात्रीं जनित्रीं कञ्जपत्राभनेत्रां कलानाथवक्त्राम् ।
श्रीस्कन्दपुत्रां सुवस्त्रां सच्चरित्रां शिवे त्वां भजे देहि वाचम् ॥ ५॥

(भक्त्याकृतं स्तोत्ररत्नं दीक्षितानन्तरामेण देवीप्रसादात् ।
नित्यं पठेत् भक्तिपूतं सत्य सर्वार्थसिद्धि भवेदेव नूनम् ॥)

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६॥

इति दीक्षितानन्तरामेणविरचितं श्रीकामाक्षीस्तोत्रं सम्पूर्णम् ।