कुण्डलिनिस्तवः
कुण्डलिनिस्तवः
आनन्दभैरव उवाच
षट्चक्रभेदनकथां कथयस्व वरानने ॥ २८-७१॥
हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् ।
प्रकाशयस्व वरदे योगानामुदयं वद ॥ २८-७२॥
येन योगेन धीराणां हितार्थं वाञ्छितं मया ।
कालक्रमेण सिद्धिः स्यात् कालजालविनाशनात् ॥ २८-७३॥
कालक्षालनहेतोश्च पुनरुद्यापनं कृतम् ।
आनन्दभैरवी उवाच
आदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥ २८-७४॥
मान्द्यं मन्दगुणोपेतं शृणु तत्क्रममुत्तमम् ।
स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥ २८-७५॥
पुरश्चरणकाले तु जपान्ते नित्यकर्मणि ।
काम्यकर्मणि धर्मेषु तथैव धर्मकर्मसु ॥ २८-७६॥
गुर्वाद्यगुरुनित्येषु भक्तिमाकृत्य सम्पठेत् ।
ॐ नमो गुरवे ॐ नमो गुर्वम्बपरदेवतायै ॥ २८-७७॥
सर्वधर्मस्वरूपायै सर्वज्ञानस्वरूपायै ।
ॐ भवविभवायै ॐ दक्षयज्ञविनाशिन्यै ॥ २८-७८॥
ॐ भद्रकाल्यै ॐ कपालिन्यै ॐ उमायै ॐ माहेश्वर्यै
ॐ सर्वसङ्कटतारिण्यै ॐ महादेव्यै नमो नमः ॥ २८-७९॥
ॐ या माया मयदानवक्षयकरी शक्तिः क्षमा कर्त्तृका
शुम्भश्रीमहिषासुरासुरबलप्रात्रोलचण्डामहा ।
भद्रार्द्रा रुधिरप्रिया प्रियकरी क्रोधाङ्गरक्तोत्पला
चामुण्डा रणरक्तबीजरजनी ज्योत्स्ना मुखेन्दीवरा ॥ २८-८०॥
या जाया जयदायिनी नृगृहिणी भीत्यापहा भैरवी
नित्या सा परिरक्षणं कुरु शिवा सारस्वतोत्पत्तये ।
सा मे पातु कलेवरस्य विषयाह्लादेन्द्रियाणां बलं
वक्षः स्थायिनमुल्वणोज्ज्वलशिखाकारादिजीवाञ्चिता ॥ २८-८१॥
कृत्वा योगकुलान्वितं स्वभवने नित्यं मनोरञ्जनं
नित्यं संयमतत्परं परतरे भक्तिक्रियानिर्मलम् ।
शम्भो रक्षरजोऽपनीशचरणाम्भोजे सदा भावनं
विद्यार्थप्रियदर्शनं त्रिजगतां संयम्ययोगी भवेत् ॥ २८-८२॥
आकाङ्क्षापरिवर्जितं निजगुरोः सेवापरं पावनं
प्रेमाह्लादकथाच्युतं कुटिलताहिंसापमानप्रियम् ।
कालक्षेपण दोषजालरहितं शाक्तं सुभक्तं पतिं
श्रीशक्तिप्रियवल्लभं सुरुचिरज्ञानान्तरं मानिनम् ॥ २८-८३॥
मालासूक्ष्म सुसूक्ष्मबद्धनिलयं सल्लक्षणं साक्षिणं
नानाकारणकारणं ससरणं साकारब्रह्मार्पणम् ।
नित्या सा जडितं महान्तमखिले योगासनज्ञानिनं
तं वन्दे पुरुषोत्तमं त्रिजगतामंशार्कहंसं परम् ॥ २८-८४॥
मायाङ्के प्रतिभाति चारुनयानाह्लादैकबीजं विधिं
कल्लोलाविकुलाकुला समतुला कालाग्निवाहानना ।
हालाहेलन कौलकालकलिका केयूरहारानना ।
सर्वाङ्गा मम पातु पीतवसना शीघ्रासना वत्सला ॥ २८-८५॥
सा बालाबलवाहना सुगहना सम्मानना धारणा
खं खं खं खचराचरा कुलचरा वाचाचरा वङ्खरा ।
चं चं चं चमरीहरीभगवती गाथागताः सङ्गतिः
बाहौ मे परिपातु पङ्कजमुखी या चण्डमुण्डापहा ॥ २८-८६॥
कं कं कं कमलाकला गतिफला फूत्कारफेरूत्करा
पं पं पं परमा रमा जयगमा व्यासङ्गमा जङ्गमा ।
तं तं तं तिमिरारुणा सकरुणा मातावला तारिणी
भं भं भं भयहारिणी प्रियकरी सा मे भवत्वन्तरा ॥ २८-८७॥
झं झं झं झरझर्मरीगतिपथस्थाता रमानन्दितं
मं मं मं मलिनं हि मां हयगतां हन्त्रीं रिपूणां हि ताम् ।
भक्तानां भयहारिणी रणमुखे शत्रोः कुलाग्निस्थिता
सा सा सा भवतु प्रभावपटला दीप्ताङ्घ्रियुग्मोज्ज्वला ॥ २८-८८॥
गं गं गं गुरुरूपिणी गणपतेरानन्दपुञ्जोदया
तारासारसरोरुहारुणकला कोटिप्रभालोचना ।
नेत्रं पातु(सदा) शिवप्रियपथा कौट्यायुतार्कप्रभा
तुण्डं मुण्डविभूषणा नरशिरोमाला विलोला समा ॥ २८-८९॥
योगेशी शशिशेखरोल्वणकथालापोदया मानवी
शीर्षं पातु ललाटकर्ण युगलानन्तस्ततः सर्वदा ।
मूर्त्तं मेरुशिखा स्थिता व्यवतु मे गण्डस्थलं कैवली
तुष्टं चाष्टमषष्टिकाधरतलं धात्री धराधारिणी ॥ २८-९०॥
नासाग्रद्वयगह्वरं भृगुतरा नेत्रत्रयं तारिणी
केशान् कुन्तलकालिका सुकपिला कैलासशैलासना ।
कङ्कालामलमालिका सुवसना दन्तावलीं दैत्यहा
बाह्यं मन्त्रमनन्तशास्त्रतरणी संज्ञावचःस्तम्भिनी ॥ २८-९१॥
हं हं हं नरहारघोररमणी सञ्चारिणी पातु मे
शत्रूणां दलनं करोतु नियतं मे चण्डमुण्डापहा ।
भीमा सन्दहतु प्रतापतपना संवर्द्धनं वर्द्धिनी
मन्दारप्रियगन्धविभ्रममदा वैदग्धमोहान्तरा ॥ २८-९२॥
श्यामा पातु पतङ्गकोटिनिनदा हङ्कारफट्कारिणी
आनन्दोत्सवसर्वसारजयदा सर्वत्र सा रक्षिका ।
क्षौं क्षौं क्षौं कठिनाक्षरा क्षयकरी सर्वाङ्गदोषंहना
देहारेः कचहा परा कचकुचाकीलालपूराशिता ॥ २८-९३॥
घं घं घं घटघर्घरा विघटिता जायापतेः पातु मे
कल्पे कल्पा कुलानामतिभयकलितं सर्वत्र मे विग्रहम् ।
निद्रोद्रावितकालिका मम कुलं लङ्कातटाच्छादिनी
नं नं नं नयनानना सुकमला सा लाकिनी लक्षणा ॥ २८-९४॥
कुक्षौ पृष्ठतलं सदा मम धनं सा पातु मुद्रामयी
मोक्षं पातु करालकालरजकी या रञ्जकी कौतुकी ।
कृत्या नापितकन्यका शशिमुखी सूक्ष्मा मम प्राणगं
मन्दारप्रियमालया मणिमयग्रन्थ्या महन्मण्डिता ॥ २८-९५॥
पूज्या योगिभिरुत्सुकी भगवती मूलस्थिता सत्क्रिया
मत्ता पातु पतिव्रता मम गृहं धर्मं यशः श्रेयसम् ।
धर्माम्भोरुहमध्यदर्शनिकरे काली महायोगिनी
मत्तानामतिदर्पहा हरशिरोमाला कला केवला ॥ २८-९६॥
मे गुह्यं जयमेव लिङ्गमपि मे मूलाम्बुजं पातु सा
या कन्या हिमपर्वतस्य भयहा पायान्नितम्बस्थलम् ।
सर्वेषां हृदयोदयानलशिखाशक्तिर्मनोरूपिणी
मे भक्तिं परिपातु कामकुशला लक्ष्मीः प्रिया मे प्रभो ॥ २८-९७॥
गौरी गौरवकारिणी भुवि महामाया महामोहहा ।
वं वं वं वरवारुणी सुमदिरा मे पातु नित्यं कटिम् ।
कूटा सा रविचन्द्रवह्निरहिता स्वेच्छामयी मे मुखम् ॥ २८-९८॥
एतत्स्तोत्रं पठेद् यस्तु सर्वकाले च सर्वदा ।
स भवेत् कालयोगेन्द्रो महाविद्यानिधिर्भवेत् ॥ २८-९९॥
मूलपद्मबोधने च मूलप्रकृतिसाधने ।
निजमन्त्रबोधने च घोरसङ्कटकालके ॥ २८-१००॥
आपदस्तस्य नश्यन्ति अन्धकारं विना रविः ।
सर्वकाले सर्वदेशे महापातकघातकः ॥ २८-१०१॥
स भवेद् योगिनीपुत्रः कलिकाले न संशयः ॥ २८-१०२॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे
षट्चक्र प्रकाशे भैरवभैरवीसंवादे कन्दवासिनिस्तोत्रं नाम
अष्टाविंशः पटलः ॥ २८॥