श्रीदत्तात्रेयध्यानम्
श्रीदत्तात्रेयध्यानम्
दत्तात्रेयं शिवं शान्तं सच्चिदानन्दमद्वयम् ।
आत्मरूपं परं दिव्यमवण्यमुपास्महे ॥ १॥
दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥ २॥
भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ ३॥
ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।
भक्तानुकम्पनं सर्वसाक्षिणं सिद्धसेवितम् ॥ ४॥
जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ ५॥
माला कमण्डलुरधः करपद्मयुग्मे
मध्यस्थपाणियुगले डमरुत्रिशूले ।
यन्न्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे
वन्दे तमत्रिवरदं भुजषट्क युक्तम् ॥ ६॥
इति श्रीदत्तात्रेयध्यानं सम्पूर्णम् ।