श्रीदत्तात्रेयकवचम्
श्रीदत्तात्रेयकवचम्
श्रीपादः पातु मे पादावूरू सिद्धासनस्थितः ।
पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ १॥
नाभिं पातु जगत्स्रष्टोदरं पातु दलोदरः ।
कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥ २॥
स्रक्कुण्डीशूलडमरुशङ्खचक्रधरः करान् ।
पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥ ३॥
जिह्वां मे वेदवाक्पातु नेत्रे मे पातु दिव्यदृक् ।
नासिकां पातु गन्धात्मा पातु पुण्यश्रवाः श्रुती ॥ ४॥
ललाटं पातु हंसात्मा शिरः पातु जटाधरः ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ५॥
सर्वान्तरोऽन्तकरणं प्राणान्मे पातु योगिराट् ।
उपरिष्टादधस्ताच्च पृष्ठतः पार्श्वतोऽग्रजः ॥ ६॥
अन्तर्बहिश्च मां नित्यं नानारूपधरोऽवतु ।
वर्जितं कवचेनाव्यात्स्थानं मे दिव्यदर्शनः ॥ ७॥
राजतः शत्रुतो हिंस्राद् दुष्प्रयोगादितोऽघतः ।
आधिव्याधिभयार्तिभ्यो दत्तात्रेयः सदावतु ॥ ८॥
धनधान्यगृहक्षेत्रस्त्रीपुत्रपशुकिङ्करान् ।
ज्ञातींश्च पातु नित्यं मेऽनसूयानन्दवर्धनः ॥ ९॥
बालोन्मत्तपिशाचाभो द्युनिट्सन्धिषु पातु माम् ।
भूतभौतिकमृत्युभ्यो हरिः पातु दिगम्बरः ॥ १०॥
य एतद्दत्तकवचं सन्नह्याद्भक्तिभावितः ।
सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ ११॥
भूतप्रेतपिशाचाद्यैर्देवैरप्यपराजितः ।
भुक्त्वात्र दिव्यभोगान्स देहान्ते तत्पदं व्रजेत् ॥ १२॥
इति श्रीमद् परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीदत्तात्रेयकवचं सम्पूर्णम् ।