दत्तात्रेय स्तोत्र

श्रीदत्तशरणाष्टकम्

श्रीदत्तशरणाष्टकम्

दत्तात्रेय भव शरणम् । दत्तनाथ भव शरणम् ।
त्रिगुणात्मक त्रिगुणातीत । त्रिभुवनपालक भव शरणम् ॥ १॥

शाश्वतमूर्ते भव शरणम् । श्यामसुन्दर भव शरणम् ।
शेषाभरण शेषभूषण । शेषशायिन् गुरो भव शरणम् ॥ २॥

षड्भुजमूर्ते भव शरणम् । षड्यतिवर भव शरणम् ।
दण्डकमण्डलु गदापद्मकर । शङ्खचक्रधर भव शरणम् ॥ ३॥

करुणानिधे भव शरणम् । करुणासागर भव शरणम् ।
कृष्णासङ्गमिंस्तरुवरवासिन् । भक्तवत्सल भव शरणम् ॥ ४॥

श्रीगुरुनाथ भव शरणम् । सद्गुरुनाथ भव शरणम् ।
श्रीपादश्रीवल्लभ गुरुवर । नृसिंहसरस्वति भव शरणम् ॥ ५॥

कृपामूर्ते भव शरणम् । कृपासागर भव शरणम् ।
कृपाकटाक्ष कृपावलोकन । कृपानिधे गुरो भव शरणम् ॥ ६॥

कालान्तक भव शरणम् । कालनाशक भव शरणम् ।
पूर्णानन्द पूर्णपरेश । पुराणपुरुष भव शरणम् ॥ ७॥

हे जगदीश भव शरणम् । जगन्नाथ भव शरणम् ।
जगत्पालक जगदधीश । जगदुद्धार भव शरणम् ॥ ८॥

अखिलान्तर भव शरणम् । अखिलैश्वर्य भव शरणम् ।
भक्तप्रिय वज्रपञ्जर । प्रसन्नवक्त्र भव शरणम् ॥ ९॥

दिगम्बर भव शरणम् । दीनदयाघन भव शरणम् ।
दीननाथ दीनदयाळ । दीनोद्धार भव शरणम् ॥ १०॥

तपोमूर्ते भव शरणम् । तेजोराशे भव शरणम् ।
ब्रह्मानन्द ब्रह्मसनातन । ब्रह्ममोहन भव शरणम् ॥ ११॥

विश्वात्मक भव शरणम् । विश्वरक्षक भव शरणम् ।
विश्वम्भर विश्वजीवन । विश्वपरात्पर भव शरणम् ॥ १२॥

विघ्नान्तक भव शरणम् । विघ्ननाशक भव शरणम् ।
प्रणवातीत प्रेमवर्धन । प्रकाशमूर्ते भव शरणम् ॥ १३॥

निजानन्द भव शरणम् । निजपददायक भव शरणम् ।
नित्यनिरञ्जन निराकार । निराधार भव शरणम् ॥ १४॥

चिद्धनमूर्ते भव शरणम् । चिदाकार भव शरणम् ।
चिदात्मरूप चिदानन्द । चित्सुखकन्द भव शरणम् ॥ १५॥

अनादिमूर्ते भव शरणम् । अखिलावतार भव शरणम् ।
अनन्तकोटि ब्रह्माण्डनायक । अघटितघटन भव शरणम् ॥ १६॥

भक्तोद्धार भव शरणम् । भक्तरक्षक भव शरणम् ।
भक्तानुग्रह गुरुभक्तप्रिय । पतितोद्धार भव शरणम् ॥ १७॥

दत्तात्रेय भव शरणम् ॥

इति श्रीदत्तशरणाष्टकं सम्पूर्णम् ।