श्रीदत्तस्तवराजः
श्रीदत्तस्तवराजः
श्रीगणेशाय नमः ।
श्रीशुक उवाच -
महादेव महादेव देवदेव महेश्वर ।
दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १॥
तदस्य वद माहात्म्यं देवदेव दयानिधे ।
दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम् ॥ २॥
जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः ।
तत्सर्वं ब्रूहि मे देव करुणाकर शङ्कर ॥ ३॥
महादेव उवाच-
शृणु व्यासात्मजात त्वं गुह्याद्गुह्यतरं महत् ।
यस्य स्मरणमात्रेण मुच्यते सर्वबन्धनात् ॥ ४॥
दत्तं सनातनं बह्म निर्विकारं निरञ्जनम् ।
आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ ५॥
नामरूपक्रियातीतं निःसङ्गं देववन्दितम् ।
नारायणं शिवं शुद्धं दृश्यदर्शनवर्जितम् ॥ ६॥
परेशं पार्वतीकान्तं रमाधीशं दिगम्बरम् ।
निर्मलो नित्यतृप्तात्मा नित्यानन्दो महेश्वरः ॥ ७॥
ब्रह्मा विष्णुः शिवः साक्षाद् गोविन्दो गतिदायकः ।
पीताम्बरधरो देवः माधवः सुरसेवितः ॥ ८॥
मृत्युञ्जयो महारुद्रः कार्तवीर्यवरप्रदः ।
ओमित्येकाक्षरं बीजं क्षराक्षरपदं हरिः ॥ ९॥
गया काशी कुरुक्षेत्रं प्रयागं बदरिकाश्रमः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १०॥
गोमती जाह्नवी भीमा गण्डकी च सरस्वती ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ११॥
सरयूस्तुङ्गभद्रा च यमुना पयवाहिनी ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १२॥
ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १३॥
नर्मदा सिन्धु कावेरी कृष्णवेणी तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १४॥
अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १५॥
द्वादश ज्योतिर्लिङ्गं च वाराहे पुष्करे तथा ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १६॥
ज्वालामुखी हिङ्गुला च सप्तशृङ्गस्तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १७॥
अयोध्या मथुरा काञ्ची रेणुका सेतुबन्धनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १८॥
अहोबिलं त्रिपथगां गङ्गा सागरमेव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १९॥
करवीरमहास्थानं रङ्गनाथं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २०॥
एकादशीव्रतं चैव अष्टाङ्गैर्योगसाधनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २१॥
शाकम्भरी च मूकाम्बा कार्तिकस्वामिदर्शनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २२॥
व्रतं निष्ठा तपो दानं सामगानं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २३॥
मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २४॥
अन्नहोमादिकं दानं मेदिन्यश्वगजान् वृषान् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २५॥
माघकार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २६॥
अश्वमेधसहस्राणि मातापितृप्रपोषणम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २७॥
अमितं पोषणं पुण्यं उपकारस्तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २८॥
जगन्नाथं च गोकर्णं पाण्डुरङ्गं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २९॥
सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३०॥
शास्त्रषट्कं पुराणानिअष्टौ व्याकरणानि च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३१॥
सावित्री प्रणवं जप्त्वा चतुर्वेदांश्च पारगः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३२॥
कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३३॥
वापी कूपतटाकानि काननारोपणानि च
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३४॥
अश्वत्थतुलसी धात्री सेवेत यो नरस्सदा ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३५॥
शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३६॥
गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च ।
प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३७॥
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३८॥
स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् ।
प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३९॥
स्त्रीहत्यादिकं पापं बालहत्यास्तथैव च ॥ ४०॥
प्रायश्चित्तं कृतं तेन सर्वपापप्राणाशनम् ।
ब्रह्मत्वं लभ्यते ज्ञानं दत्त इत्यक्षरद्वयम् ॥ ४१॥
कलिदोष विनाशार्थं जपेदेकाग्रमानसः ।
श्री गुरुं परमानन्दं दत्त इत्यक्षरद्वयम् ॥ ४२॥
दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् ।
श्रद्धायुक्तो जपेन्नित्यं दत्त इत्यक्षरद्वयम् ॥ ४३॥
केशवं माधवं विष्णुं गोविन्दं गोपतिं हरिम् ।
गुरूणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥ ४४॥
निरञ्जनं निराकारं देवदेवं जनार्दनम् ।
मायामुक्तं जपेन्नित्यं पावनं सर्वदेहिनाम् ॥ ४५॥
आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् ।
सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥ ४६॥
नारायणं परं ब्रह्म लक्ष्मीकान्तं परात्परम् ।
अप्रमेयं सुरानन्दं नमो दत्तदिगम्बरम् ॥ ४७॥
योगिराजोऽत्रिवरदः सुराध्यक्षो गुणान्तकः ।
अनसूयात्मजो देवो देवो गतिप्रदायकः ॥ ४८॥
गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः ।
समस्तऋषिभिः सर्वैः भक्त्या स्तुत्वा महात्मभिः ॥ ४९॥
नारदेन सुरेन्द्रेण सनकाद्यैर्महात्मभिः ।
गौतमेन च गार्गेण व्यासेन कपिलेन च ॥ ५०॥
वामदेवेन दक्षेण अत्रिभार्गवमुद्गलैः ।
वसिष्ठप्रमुखैः सर्वैः गीयते सर्वदादरात् ॥ ५१॥
विनायकेन रुद्रेण महासेनेन वै सदा ।
मार्कण्डेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥ ५२॥
मरीच्यादिमुनीन्द्रैश्च शुककर्दमसत्तमैः ।
अङ्गिराकृतपौलस्त्यभृगुकश्यपजैमिनी ॥ ५३॥
गुरुस्तवमधीयानो विजयी सर्वदा भवेत् ।
गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥ ५४॥
गुरोः परतरं नास्ति सत्यं सत्यं न संशयः ।
गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥ ५५॥
तेऽपि संन्यासैनो ज्ञेयाः इतरे वेषधारिणः ।
गङ्गाद्याः सरितः सर्वे गुरोः पादाम्बुजे सदा ॥ ५६॥
गुरुस्तवं न जानाति गुरुनाममुखेन हि ।
पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥ ५७॥
इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् ।
पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥ ५८॥
इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजः सम्पूर्णः ।