दत्तात्रेय स्तोत्र

श्रीदत्तहृदय

श्रीदत्तहृदय


श्रीगणेशाय नमः ।

अथ श्रीदत्तहृदय प्रारम्भः ।
श्रीपार्वत्युवाच -
देव शङ्कर सर्वेश भक्तानामभयप्रद ॥

विज्ञप्तिं श‍ृणु मे शम्भो नराणां हितकारणम् ॥ १॥

ईश्वर उवाच -
वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥ २॥

पार्वत्युवाच -
देवदेवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ॥

सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥ ३॥

ईश्वर उवाच -
श‍ृणु देवि महाभागे हृदयं परमाद्भुतम् ॥ ४॥

अस्य श्रीदत्तात्रेयहृदयस्तोत्रमन्त्रस्य,
श्रीभगवान् ईश्वरो ऋषिः, अनुष्टुप् छन्दः,
श्रीचित्स्वरूपी दत्तात्रेयो देवता,
ॐ बीजं, ह्रीं शक्तिः, क्रौं कीलकम्,
(ममाभीष्ट) दत्तप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

अथ करन्यासः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥

अथ अङ्गन्यासः ।
ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ॥

ॐ द्रूं शिखायै वषट् ॥

ॐ द्रैं कवचाय हुं ॥

ॐ द्रौं नेत्रत्रयाय वौषट् ॥

ॐ द्रः अस्त्राय फट् ॥

ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥

ध्यानम् ।
बालचन्द्रसुशुभे च किरीटे पुष्पहारमणियुक्तवक्षकम्
पीतवस्त्रपरिशोभितमध्यं प्रणमाम्यनुसुयोद्भवदत्तम् ॥ १॥

दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् ।
हरिं शिवं महादेवं सर्वभूतोपकारकम् ॥ २॥

नारायणं महाविष्णुं सर्गस्थित्यन्तकारिणम् ।
निराकारं च सर्वेशं कार्तवीर्य वरप्रदम् ॥ ३॥

अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् ।
द्राम्बीजं वरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ४॥

शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ।
त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ॥ ५॥

रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् ।
दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ ६॥

भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् ।
निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥ ७॥

ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् ।
किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ ८॥

चन्द्रानुजं चन्द्रवक्त्रं रुद्रं इन्द्रादिवन्दितम् ।
अनुसूयाकलत्रं च दिनेशममराधिपम् ॥ ९॥

योगीश देवदेवेश अब्जजन्मादिवन्दित ।
नारायण विरूपाक्ष दत्तात्रेया नमोऽस्तु ते ॥ १०॥

अनन्त कमलाकान्त औदुम्बरस्थित प्रभो ।
निरञ्जन महायोगिन् दत्तायेत्र नमोऽस्तु ते ॥ ११॥

महाबाहो मुनिमणे सर्वविद्याविशारद ।
स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तु ते ॥ १२॥

ऐंद्र्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् ।
याम्यां दत्तात्रयो रक्षेन्नैऋत्यां भक्तवत्सलः ॥ १३॥

प्रतीच्यां पातु योगीशो योगिनां हृदये स्थितः ।
आनिल्यां वरदः शम्भुः कौबेर्यां जगतः प्रभुः ॥ १४॥

एकाक्षरो महामन्त्रः सर्वमन्त्रेषु विश्रुतः ।
अष्टाक्षरः सर्वसिद्धिः सर्वतन्त्रेषु गोपितः ॥ १५॥

ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः ।
षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पिता ॥ १६॥

एवं पङ्क्तिदशो रक्षेद्यदुराजवरप्रदः ।
अकारादिक्षकारान्तं सदा रक्षेद्विभुः स्वयम् ॥ १७॥

आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् ।
दत्तं दत्त पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥ १८॥

तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः ।
या इदं पठते नित्यं हृदयं सर्वकामदम् ॥ १९॥

पिशाचशाकिनीभूताडाकिनी शाकिनी तथा ।
ब्रह्मराक्षसवेताला झोटिङ्गा बालभूतकाः ॥ २०॥

गच्छन्ति पठनाद्देवि नात्र कार्या विचारणा ।
अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ॥ २१॥

एकवारं द्विवारं च त्रिवारं च पठेन्नरः ।
जन्ममृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ॥ २२॥

गोपनीयं प्रयत्नेन जननीजारवत्प्रिये ।
नदेयं दुर्हृदे स्तोत्रं हृदयाख्यं च भामिनि ॥ २३॥

गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् ।
तव स्नेहाच्च कथित भक्तिं ज्ञात्वा मया शुभे ॥ २४॥

दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥ २५॥

इति श्रीरुद्रयामले शिवपार्वतीसंवादे दत्तहृदयस्तोत्रं सम्पूर्णम् ॥