विष्णु स्तोत्र

श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र

श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र

पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥ १॥

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिम् ॥ २॥

चित्तस्थमीशमव्यक्तमनन्तमपराजितम् ।
विष्णुमीड्यमशेषेण अनादिनिधनं विभुम् ॥ ३॥

विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् ।
यच्चाहङ्कारगो विष्णुर्यव्दिष्णुर्मयिसंस्थितः ॥ ४॥

करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च ।
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥ ५॥

ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिम् ॥ ६॥ var प्रणतार्तिहरं
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।
हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥ ७॥

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तुते ॥ ८॥

नृसिंहानन्त गोविन्द भूतभावन केशव ।
दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तुते ॥ ९॥

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना ।
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥ १०॥

ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।
जगन्नाथ जगद्ध्यातः पापं प्रशमयाच्युत ॥ ११॥

यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता ॥ १२॥

जानता च हृषीकेश पुण्डरीकाक्ष माधव ।
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ॥ १३॥ var पापं यातु
शरीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।
पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ॥ १४॥

यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः ।
कृतवान् पापमद्याहं कायेन मनसागिरा ॥ १५॥

यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् ।
तद्यातु प्रशमंसर्व वासुदेवानुकीर्तनात् ॥ १६॥

परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।
तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥ १७॥

यत् प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम् ।
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥ १८॥

माहात्म्यं
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि ।
शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥ १९॥

सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् ।
तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम् ॥ २०॥

प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम् ।
प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकम् ॥ २१॥

ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥ २२॥

इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्त पापनाशनस्तोत्रं
नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥