विष्णु स्तोत्र

सत्यनारायणस्तुतिः

सत्यनारायणस्तुतिः

ध्यायेत् सत्यं गुणातीतं गुणत्रय-समन्वितम् ।
लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ॥ १॥

नीलवर्णं पीतवस्त्रं श्रीवत्सपदभूषितम् ।
गोविन्दं गोकुलानन्दं ब्रह्माद्यैरपि पूजितम् ॥ २॥

सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् ।
लीलया विततं विश्वं येन तस्मै नमो नमः ॥ ३॥

इति सत्यनारायणस्तुतिः समाप्ता ।