श्रीबटुकभैरवप्रातःस्मरणम्
श्रीबटुकभैरवप्रातःस्मरणम्
प्रातः स्मरामि बटुकं सुकुमारमूर्तिं
श्रीस्फाटिकाभसदृशं कुटिलालकाढ्यम् ।
वक्त्रं दधानमणिमादिगुणैर्हि युक्तं
हस्तद्वयं मणिमयैः पदभूषणैश्च ॥ १॥
प्रातर्नमामि बटुकं तरुणं त्रिनेत्रं
कामास्पदं वरकपालत्रिशूलदण्डान् ।
भक्तार्तिनाशकरणे दधतं करेषु
तं कौस्तुभाभरणभूषित दिव्यदेहम् ॥ २॥
प्रातःकाले सदाऽहं भगणपरिधरं भालदेशे महेशं
नागं पाशं कपालं डमरूमथ सृणिं खड्गघण्टाभयानि ।
दिग्वस्त्रं पिङ्गकेशं त्रिनयनसहितं मुण्डमालं करेषु
यो धत्ते भीमदंष्ट्रं मम विजयकरं भैरवं तं नमामि ॥ ३॥
देवदेव कृपासिन्धो सर्वनाशिन्महाव्यय । var शत्रुनाशिन्महाव्यय
संसारासक्तचित्तं मां मोक्षमार्गे निवेशय ॥ ४॥
एतच्छ्लोकचतुष्कं वै भैरवस्य तु यः पठेत् ।
सर्वबाधाविनिर्मुक्तो जायते निर्भयः पुमान ॥ ५॥